Book Title: Prayaschitta Sangraha
Author(s): Pannalal Soni
Publisher: Manikyachandra Digambar Jain Granthmala Samiti
View full book text
________________
प्रायश्चित्तसंग्रहे
ब्रह्महत्यादिकं यस्तु कुरुते मनुजः क्षितौ । तच्छुद्धयै त्रिंशदेव स्युरुपवासाः श्रुतौ श्रुताः ॥ एकभक्तानि पंचाशदभिषेकद्वयं घटैः । दशामृतैर्मोक्कूलास्तु विंशतिः परिकीर्तिताः ॥ द्वे गावौ भुक्तिदानानि शतं सुमनसां दश । सहस्राणि दशैव स्युः पलं गन्धस्य च क्रमात् ॥ संघार्चा पंचभिनिष्कैस्तीर्थयात्रा च पंच वै ॥१०॥ ब्राह्मणक्षत्रियवैश्यानां शूद्रादिगृहसंगतः। अन्नपानं भवेन्मिश्रं यदि शुद्धिरियं पुनः ॥ एकोऽभिषेकः कलशैः पंच पंचामृतैस्तथा। मोक्कूला द्वादश(शा)श्चैकभुक्तानि त्रिंशदुच्चकैः ॥ अयुतार्ध च पुष्पाणां श्रीखण्डं तु पलद्वयं । एकैकार्थयात्राया निष्कद्वितयपूजनम् ॥ ११ ॥ मिथ्यागशु (ग्छुद्र ) मिश्रानपानादि च भवेद्यदि । प्रायश्चित्तं भवेदत्राभिषेकत्रितयं घटैः॥ पंचामृताभिषेकाः स्युर्दश वै पंचविंशतिः । मोक्कूला गौरिहैका स्यादुपवासा दशोदिताः ॥ एकभक्तानि त्रिंशत्तु पुष्पाणामयुतं भवेत् । श्रीखण्डस्य पलं पंचाहारदानशतं भवेत् ॥ तीर्थयात्राश्च पंच स्युः पंचनिष्कप्रपूजनम् ॥ १२॥ जननीतनुजादीनां चाण्डालादिस्त्रियामपि । संभोगे सति शुद्ध्यर्थं पंचाशदुपवासकाः ॥ भवेत् पंचशती त्वेकभक्तानां तु परिस्फुटं । अभिषेकास्त्रयः कुम्भैः दश पंचामृतैः स्मृताः ॥

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202