Book Title: Prayaschitta Sangraha
Author(s): Pannalal Soni
Publisher: Manikyachandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 182
________________ श्रीमद्भट्टाकलङ्कदेवविरचितः प्रायश्चित्तग्रन्थः । जिनचन्द्रं प्रणम्याहमकलङ्कं समन्ततः । प्रायश्चित्तं प्रवक्ष्यामि श्रावकाणां विशुद्धये ॥ १ ॥ मकारत्रयसेवां यः कृत्वा पश्चाद्विरक्तभाक् । तत्त्यजेत्तस्य जायेत प्रायश्चित्तमिदं स्फुटम् ॥ द्वादशानशनान्येकवारभुक्तानि चापि वै । पंचाशदभिषेकान्ना (न्न ) दानानि च पृथक् पृथक् ॥ कलशाभिषेकञ्चैको गौरेका च प्रदीयते । पुष्पाणां च सहस्राणि चतुर्विंशतिरेव च ॥ तथा द्वे तीर्थयात्रेस्तो गन्धं पलंचतुष्टयम् । संघपूजां च निष्काणि त्रीणि कुर्याद्विचक्षणः ॥ २ ॥ प्रमादात् सेवते यस्तु मकारत्रितयं नरः । प्रायश्चित्तं ब्रुवे तस्य विशुद्धौ पूर्ववत् क्रमात् ॥ अभिषेकाश्च तावन्तः पुष्पपंचसहस्रकं । पलद्वयमितं गन्धं तीर्थयात्रे तथा द्विके ॥ ३ ॥ पंचोदुम्बरसेवाभाग्यस्तस्य च विशोधनम् । चत्वार उपवासाः स्युर्द्वादशाश्चैकभुक्तयः ॥ कलशाभिषेकाञ्चैकोऽभिषेको द्वादशोदिताः । सहस्राणि च चत्वारि कुसुमानि भवन्ति वै ॥ १ लिखित पुस्तके सर्वत्र अस्मादग्रे पलस्थाने फलेति पाठो वर्तते ।

Loading...

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202