Book Title: Prayaschitta Sangraha
Author(s): Pannalal Soni
Publisher: Manikyachandra Digambar Jain Granthmala Samiti
View full book text
________________
प्रायश्चित्त-चूलिका।
गृहीतव्यं -गोपयितव्यं । त्रयाणां न-त्रयाणां पुरुषाणां गोपनं न भवति । हितं स्वस्मै समीप्सुभिः-आत्महितमिच्छुभिर्मनुष्यैः । नरेन्द्रस्यराज्ञः । अपि वैद्यस्य–भिषजोऽपि । गुरोः-आचार्यस्य च । हितविधायिनः-हितकारिणः तन्नरेन्द्रादेः ॥ १६२॥ ।
यावन्तः स्युः परीणामास्तावन्ति च्छेदनान्यपि ।
प्रायश्चित्तं समर्थः को दातुं कर्तुमहो! मते ॥ १६३ ॥ . यावन्तः—यत्परिमाणाः । स्युः-भवेयुः । परीणामाः-संप्रवृत्तयः । तावन्ति-तत्परिमाणानि । छेदनान्यपि-प्रायश्चित्तानि च भवन्ति । अतःकारणात्, प्रायश्चित्तं समर्थः कः-कः पुरुषः, प्रायाश्चत्तं विशुद्धिं, समर्थः शक्तः । दातुं-वितरितुं। कर्तु-विधातुं च। अहो-आश्चर्य । मते-शासने आगमे ॥ १६३॥
प्रायश्चित्तमिदं सम्यग्युंजानाः पुरुषाः परं।
लभन्ते निर्मलां कीर्तिं सौख्यं स्वर्गापवर्गजम् ॥ १६४॥ __ प्रायश्चित्तं-छेदनं । सम्यक्-अनुविधानेन । युजानाः-सम्बन्धन्तः सन्तः । पुरुषाः-मनुष्याः । परं--प्रधानमययं च । लभन्ते-अवा. मुवन्ति । निर्मलां-शुद्धां निष्कलङ्कां । कीर्ति-यशः । सौख्यं-सुखं च लभन्ते। स्वर्गापवर्गजं-अणिमादिकाष्टगुणैश्वर्यसंयुक्तं दिव्यमैन्द्रादि, अपवर्गजं मोक्षजं निखिलकममलपटलविकलव्य सकलविमलकेवलज्ञानादिगुणात्मकस्यात्मनो विशुद्धरूपावस्थानस्वभावमोक्षोत्पन्नं च सौख्यं लभन्ते ॥ १६४ ॥
चूलिकासहितो लेशात् प्रायश्चित्तसमुच्चयः । नानाचार्यमतान्यैक्याद्बोद्धुकामेन वर्णितः ॥ १६५ ॥ चूलिकासहितः-चूलिकासमन्वितः । लेशात्-अंशात् उद्देशात् संक्षेपात् । प्रायश्चित्तसमुच्चयः-प्रायश्चित्तसमुच्चयाभिधानः प्रायश्चित्तसंक्षेपाख्यो

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202