Book Title: Prayaschitta Sangraha
Author(s): Pannalal Soni
Publisher: Manikyachandra Digambar Jain Granthmala Samiti
View full book text
________________
प्रायश्चित्त-चूलिका।
१५९
- सब्बो (यो) लंषि(बि)तगोघातप्रहारः (?) गोघ (ह) तिः गोघातः गोघातेन समाहतं यस्य स गोघातसमाहतः तं च, वन्दीगृहसमाहतं वन्दीगृहेण समाहतं यस्य स वन्दीगृहसमाहतः तमपि । कृमिदष्टं च-कृमिक्षतमपि च । संस्पृश्य-स्पृष्ट्वा । क्षमणानि षडश्नुते-षट् क्षमणानि उपवासान् अश्नुते प्राप्नोति । मृतकं उद्धद्धमृतं गोविहितं (?) वन्दीगृहनिपतितं कृमिहतमित्ये. तान् यदि स्पृशति तदानीं तत्प्रायश्चित्तं भवतीति भावार्थः ॥ १४९ ॥
सुतामातृभगिन्यादिचाण्डालीरभिगम्य च ।
अश्नुवीतोपवासानां द्वात्रिंशतमसंशयं ॥ १५० ॥ सुतामातृभागिन्यादिचांडालीः -सुता दुहिता पुत्री, माता जननी, भगिनी स्वसा, आदिशब्देन मातृष्वसास्वश्रूस्नुषा इत्येताश्च, चाण्डालीः चाण्डालमातंगवनिताद्याश्च । अभिगम्य-संसेव्य । अश्नुवीतप्रामोति । उपवासानां द्वात्रिंशतं-द्वात्रिंशदुपवासान् । असंशयं-असंदिग्धम् ॥ १५० ॥
कारूणां भाजने भुक्ते पीतेऽथ मलशोधनम् । . .. विशोषा पंच निर्दिष्टा छेददक्षैर्गणाधिपैः ॥ १५१ ॥ कारूणां-कारूणामभोज्यानां । भाजने-पात्रे । भुक्ते--ऽभ्यवहृते सति । पीतेऽथ-अथवा पीते च सति । मलशोधनं–प्रायश्चित्तं । विशोषाः पंच-पंच विशोषा विशोषणा । निर्दिष्टाः–कथिताः । छेददक्षैः-प्रायश्चित्तशास्त्रकुशलैः । गणाधिपैः-आचार्यवगैः ॥ १५१ ॥
जलानलप्रवेशेन भृगुपाताच्छिशावपि ।
बालसंन्यासतः प्रेते सद्यः शौचं गृहिव्रते ॥ १५२ ॥ __ जलानलप्रवेशेन-जलप्रवेशेन पानीये प्रवेशं विधाय प्रेते सति, अनलप्रवेशेन अग्निप्रवेशेन च प्रेते । भृगुपातात्-पतनात् हेतुभूतात् । शिशावपि-बाले च प्रेते । बालसंन्यासतः-बालसंन्यासात् मिथ्यादृष्टिसंन्यासेन च कृत्वा । प्रेते-स्वजने मृते । सद्यः-झटिति । शौचं-शुद्धि

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202