Book Title: Prayaschitta Sangraha
Author(s): Pannalal Soni
Publisher: Manikyachandra Digambar Jain Granthmala Samiti
View full book text
________________
प्रायश्चित्त-चूलिका।
१५७
सुवर्णाद्यपि-सुवर्णहिरण्यवस्त्रयुगलादि च । दातव्यं-वितरणीयं । तदिच्छूनां-तदार्थनां लोकानां । यथोचितं-यथायोग्यं । शिरःक्षौरं च कर्तव्यं-शिरसो मस्तकस्य क्षौरं क्षुरकर्म केशापनयनं, तदपि कर्तव्यं करणीयं । लोकचित्तजिघृक्षया-लोकस्य जनस्य सम्बन्धिनः, चित्तस्य मनसः, जिघृक्षया गृहीतुमिच्छया-सकलजनमनोनुरागकारिणो धर्मानुष्ठानसुखप्रवृत्तेः । ततः स्ववेश्मप्रवेशो भवति ॥ १४५ ॥
क्षुद्रजन्तुवधे शान्तिः षष्ठमन्यव्रतच्युतौ।
गुणशिक्षाक्षतौ शान्तिदृग्ज्ञाने जिंनपूजनम् ॥ १४६ ॥ क्षुद्रजन्तुवधे-क्षुद्रजन्तवः द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाश्च एतेषां वधे विघाते कृते सति । शान्तिः-उपवासः प्रायश्चित्तं । षष्ठमन्यवतच्युतौअन्येषां स्तेयस्वदारसंतोषपरिग्रहपरिमाणवतानां च्युतौ च्यवने भंगे सति षष्ठं प्रायश्चित्तं भवति । (गुणशिक्षाक्षतौ क्षान्तिः--गुणवतानां शिक्षावतानां च क्षतौ भंगे सति क्षान्तिरुपवासः प्रायश्चित्तं )। दृग्ज्ञाने जिनपूजनंदर्शनं दृक् सम्यक्त्वं तत्वार्थश्रद्धानलक्षणं, अष्टशुद्धिविशुद्धं ज्ञानमागमः तयोविषये जिनपूजनं सर्वज्ञार्चनं प्रायश्चित्तं भवति । सर्वोऽपि व्रतदोषः पंचषष्ठिभेदो भवति । तद्यथा--
अतिक्रमो व्यतिक्रमोऽतिचारोऽनाचारोऽभोग इति । एषामर्थश्चायमभिधीयते जरद्वन्यायेन, यथा कश्चिज्जरद्वः महासस्यसमृद्धिसम्पन्नं क्षेत्रं समवलोक्य तत्सीमसमीपप्रदेशे समवस्थितस्तत्प्रति स्पृहां संविधत्ते सोऽतिक्रमः । पुनर्विवरोदरान्तरास्यं संप्रवेश्य ग्रासमेकं समाददामीत्यभिलाषकालुष्यमस्य व्यतिक्रमः । पुनरपि तवृत्तिसमुल्लंघनमस्यातिचारः । पुनरपि क्षेत्रमध्यमधिगम्य ग्रासमेकं समादाय पुनरस्यापसरणमनाचारः। भूयोऽपि निःशंकतः क्षेत्रमध्यं प्रविश्य यथेष्टं संभक्षणं क्षेत्रप्रभुणा प्रचण्डदण्डताडनखलीकारः अभोगकारः अभोग इति । एवं व्रतादिष्वपि योज्यं । उपरि १ ‘कृतपूजनं' पुस्तके पाठः । २ कंसस्थः पाठः पुस्तके नास्ति किन्तु कल्पितः ।

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202