Book Title: Prayaschitta Sangraha
Author(s): Pannalal Soni
Publisher: Manikyachandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 173
________________ १५६ प्रायश्चित्तसंग्रहे-- द्विगुणं द्विगुणं तस्मात् स्त्रीबालपुरुषे हतौ। सदृष्टिश्रावकर्षीणां द्विगुणं द्विगुणं ततः ॥ १४३ ॥ द्विगुणं द्विगुणं-द्विः द्विः प्रायश्चित्तं भवति । तस्मात्-ततो गोवधात्सकाशात् । . स्त्रीबालपुरुषे हतौ-स्त्री योषित्, बालः शिशुः, पुरुषो मनुष्यः इत्येतेषु विषये हतौ सत्यां घाते सति । सदृष्टिश्रावकर्षीणां-सदृष्टिः अविरतसम्यग्दृष्टिः, श्रावको ब्राह्मणो लौकिकश्चेतरश्च, ऋषिश्च लौकिकः लोकोत्तरश्च, एतेषां विशेषपुरुषाणां हतौ सत्यां । द्विगुणं द्विगुणं ततः-ततः पूर्वोक्तागोवधप्रायश्चित्तात् प्रत्येक स्त्रीप्रभृतीनां विधाते प्रायश्चित्तं भवति । गोवधात् स्त्रीवधे द्विगुणं प्रायश्चित्तं । स्त्रीवधाद्वालवधे द्विगुणं । बालवधात् सामान्यमनुष्ये द्विगुणं । सामान्यमनुष्यवधात् पाषंडिषु द्विगुणं । पाषंडिवधाल्लौकिकब्राह्मणे द्विगुणं । लौकिकब्राह्मणवधादसंयतसम्यग्दृष्टौ द्विगुणं । असंयतसम्यग्दृष्टिवधात् संयतासंयते द्विगुणं । संयतासंयतवधात् निर्यन्थसंयतो विषये द्विगुणं प्रायश्चित्तं भवति ॥ १४३ ॥ कृत्वा पूजां जिनेन्द्राणां स्नपनं तेन च स्वयम् । स्नात्वोपध्यम्बरायं च दानं देयं चतुर्विधम् ॥ १४४ ॥ प्रायश्चित्त वरणानन्तरं, कृत्वा-विधाय । पूजां -महिमां । जिनेन्द्राणामहतां । स्नपनं-अभिषेकं च कृत्वा । तेन च स्वयं स्नात्वा-तेन जिनेन्द्रस्नपनोदकेन, स्वयमात्मना, स्नात्वाभिषिच्य । उपध्यम्बरायं च, दानं देयं-उपधिः पुस्तककमण्डलुप्रतिलेखितप्रभृत्युपकरणं, अम्बरे वस्त्रं, आदिशब्देन पात्रप्रमुखं च दानमतिसर्जनं वस्त्याचं दातव्यं । चतुर्विधं - अभयदानमाहारदानं शास्त्रदानमौषधदानं चेति चतुष्प्रकारम् ॥ १४४ ॥ सुवर्णाद्यपि दातव्यं तदिच्छूनां यथोचितम् । शिरःक्षौरं च कर्तव्यं लोकचित्तजिघृक्षया ॥ १४५ ॥

Loading...

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202