________________
१५६
प्रायश्चित्तसंग्रहे--
द्विगुणं द्विगुणं तस्मात् स्त्रीबालपुरुषे हतौ।
सदृष्टिश्रावकर्षीणां द्विगुणं द्विगुणं ततः ॥ १४३ ॥ द्विगुणं द्विगुणं-द्विः द्विः प्रायश्चित्तं भवति । तस्मात्-ततो गोवधात्सकाशात् । . स्त्रीबालपुरुषे हतौ-स्त्री योषित्, बालः शिशुः, पुरुषो मनुष्यः इत्येतेषु विषये हतौ सत्यां घाते सति । सदृष्टिश्रावकर्षीणां-सदृष्टिः अविरतसम्यग्दृष्टिः, श्रावको ब्राह्मणो लौकिकश्चेतरश्च, ऋषिश्च लौकिकः लोकोत्तरश्च, एतेषां विशेषपुरुषाणां हतौ सत्यां । द्विगुणं द्विगुणं ततः-ततः पूर्वोक्तागोवधप्रायश्चित्तात् प्रत्येक स्त्रीप्रभृतीनां विधाते प्रायश्चित्तं भवति । गोवधात् स्त्रीवधे द्विगुणं प्रायश्चित्तं । स्त्रीवधाद्वालवधे द्विगुणं । बालवधात् सामान्यमनुष्ये द्विगुणं । सामान्यमनुष्यवधात् पाषंडिषु द्विगुणं । पाषंडिवधाल्लौकिकब्राह्मणे द्विगुणं । लौकिकब्राह्मणवधादसंयतसम्यग्दृष्टौ द्विगुणं । असंयतसम्यग्दृष्टिवधात् संयतासंयते द्विगुणं । संयतासंयतवधात् निर्यन्थसंयतो विषये द्विगुणं प्रायश्चित्तं भवति ॥ १४३ ॥
कृत्वा पूजां जिनेन्द्राणां स्नपनं तेन च स्वयम् ।
स्नात्वोपध्यम्बरायं च दानं देयं चतुर्विधम् ॥ १४४ ॥ प्रायश्चित्त वरणानन्तरं, कृत्वा-विधाय । पूजां -महिमां । जिनेन्द्राणामहतां । स्नपनं-अभिषेकं च कृत्वा । तेन च स्वयं स्नात्वा-तेन जिनेन्द्रस्नपनोदकेन, स्वयमात्मना, स्नात्वाभिषिच्य । उपध्यम्बरायं च, दानं देयं-उपधिः पुस्तककमण्डलुप्रतिलेखितप्रभृत्युपकरणं, अम्बरे वस्त्रं, आदिशब्देन पात्रप्रमुखं च दानमतिसर्जनं वस्त्याचं दातव्यं । चतुर्विधं - अभयदानमाहारदानं शास्त्रदानमौषधदानं चेति चतुष्प्रकारम् ॥ १४४ ॥
सुवर्णाद्यपि दातव्यं तदिच्छूनां यथोचितम् । शिरःक्षौरं च कर्तव्यं लोकचित्तजिघृक्षया ॥ १४५ ॥