________________
प्रायश्चित्त-चूलिका।
षण्णां-जघन्यानां । स्यात्-भवेत् । श्रावकाणां-उपासकानां । पंचपातकसन्निधौ-गोवधस्त्रीहत्याबालघातश्रावकविनाशर्षिविघातसन्निपाते सति। महामहो जिनेन्द्राणां सर्वज्ञानां च महामहः महामहिमा । विशेषेण विशोधनं-अतिशयप्रायश्चित्तं भवति ॥ १३९ ॥
आदावन्ते च षष्ठं स्यात्क्षमणान्येकविंशतिः। प्रमादाद्गोवधे शुद्धिः कर्तव्या शल्यवर्जितैः ॥ १४० ॥ आदौ-प्रथमं तावत् । अन्ते च--अवसाने च । षष्ठं स्यात्--षष्ठं प्रायश्चित्तं भवति । मध्ये, क्षमणान्येकविंशतिः-एकविंशतिरुपवासा: सन्ति । प्रमादात्--कथंचित् । गोवधे-गोहत्यायां । शुद्धिः-प्रायश्चित्तं । कर्तव्या-विधेया । शल्यवर्जितैः निःशल्यैः निदानमिथ्यात्वमायाशल्यविरहितैः सद्भिः ॥ १४० ॥
सौवीरं पानमाम्नातं पाणिपात्रे च पारणे । प्रत्याख्यानं समादाय कर्तव्यो नियमः पुनः॥ १४१ ।। सौवीरं--कांजिकं । पानं--पेयं । तदा, आम्नातं--कथितं । तस्य प्राप्तप्रायश्चित्तस्य । पाणिपात्रे च पारणे--पारणे उपवासावसाने भोजन शौच ? पाणिपात्रे करपुटे भवति । प्रत्याख्यान-चतुर्विधाहारनिवृत्तिं । समादाय--गृहीत्वा । कर्तव्यो नियमः पुनः--पुनर्भूयश्च, नियमः श्रावकप्रतिक्रमणं, कर्तव्यो विधातव्यः ॥ १४१ ॥
त्रिसन्ध्यं नियमस्यान्ते कुर्यात्प्राणशतत्रयं ।।
रात्रौ च प्रतिमां तिष्ठेन्निर्जितेन्द्रियसंहतिः ॥ १४२ ॥ त्रिसन्ध्यं---सन्ध्यात्रये पूर्वाह्ने मध्यान्हेऽपराह्ने च नियमः कर्तव्यः । नियमस्यान्ते-नियमावसानेऽपि । कुर्यात्-विदध्यात् । प्राणशतत्रयंउछासशतत्रयप्रमाणः कायोत्सर्गः करणीयः । रात्रौ च-निशायामपि । प्रतिमां तिष्ठेत्-कायोत्सर्ग कुर्यात् । निर्जितेन्द्रियसंहतिः--संनिरुद्धपंचेन्द्रियसमूहः सन् ॥ १४२ ॥