________________
१५४
प्रायश्चित्तसंग्रहे
view.
norwwwan
श्रमणच्छेदनं यच्च श्रावकाणां तदेव हि ।
द्वयोरपि त्रयाणां च षण्णामर्धाधहानितः ॥ १३७ ॥ श्रमणच्छेदनं--श्रमणानां साधूनां छेदनं प्रायश्चित्तं । यच्च-यदेव प्रागुपदिष्टं । श्रावकाणां-उपासकानां । तदेव हि-तदेव प्रायश्चित्तं भवति क्रमेण । द्वयोरपि-आययोरुभयोश्च । त्रयाणां--मध्येगतानां च । षण्णां-ततः परं षण्णामपि श्रावकाणां । अर्धाधहानिक्रमेण । एकादश श्रावका भवन्ति । उक्तं च
दर्शनोऽणुव्रतश्चैव ससामायिक इत्यपि । प्रोषधो विरतश्चैव सचित्तादिनमैथुनात् ॥ १ ॥ ब्रह्मव्रती निरारंभश्रावको निष्परिग्रहः ।
निरनुज्ञो निरुद्दिष्टः स्यादेकादशधेति सः ॥ २ ॥ इति । अत्राद्ययोनिरुद्दिष्टनिरनुज्ञयोरुत्कृष्टश्रावकयोः श्रमणप्रायश्चित्तस्यार्ध भवति । ततः निष्परिग्रहनिरारंभब्रह्मचारिणां त्रयाणां श्रावकाणां उत्कृष्ट श्रावकप्रायश्चित्तस्यार्धं भवतीत्यभिसम्बन्धः ॥ १३७ ॥
केचिदाहुर्विशेषेण त्रिनप्येतेषु शोधनम् । द्विभागोऽपि त्रिभागश्च चतुर्भागो यथाक्रमम् ॥ १३८ ॥ केचिदाहुः केचित् केचन आचार्याः, आहुः ब्रुवन्ति । विशेषेणभेदान्तरेण । त्रिष्वप्येतेषु-~-एतेषु पूर्वोक्तेषु श्रावकेषु त्रिष्वपि उत्कृष्टमध्यमजघन्येषु । शोधनं--प्रायश्चित्तं भवति । द्विभागः- । अथानन्तरं त्रिभागोऽपि-तृतीयोऽशः । चतुर्भाग:--पादः । यथाक्रम--यथासंख्यं । साधुप्रायश्चित्ताधं उत्कृष्टश्रावकयोर्भवति । श्रमणप्रायश्चित्तस्यैव तृतीयोऽशो मध्यमानां त्रयाणां श्रावकाणां भवति । ऋषिप्रायश्चितस्यैव चतुर्भागो जघन्यानां षण्णां भवति ॥ १३८ ॥
षण्णां स्याच्छ्रावकाणां तु पंचपातकसन्निधौ । महामहो जिनेन्द्राणां विशेषेण विशोधनम् ॥ १३९ ॥