________________
प्रायश्चित्त- चूलिका |
१५३
--
क्षान्त्या पुष्पं प्रपश्यन्त्या तद्दिनात् स्याच्चतुर्दिनम् । आचाम्लनीरसाहारः कर्तव्या चाथवा क्षमा ॥ १३४ ॥ क्षान्त्या - आर्यया । पुष्पं - रजः । प्रपश्यन्त्या -- अवलोकमानया । तद्दिनात् - यस्मिन् दिवसे तद्दृष्टं तस्माद्दिनाद्दिवसात् प्रभृति । स्यात् भवेत् । चतुर्दिनं - दिनचतुष्टयं । आचाम्लं – असंस्कृत कंजिकभोजनं । नीरसाहारः --- निर्गता रसा विकृतयः तिक्तकटुकादयो यस्मादसौ नीरसः स चासौ आहारः निर्विकृतिः, यथा सिद्धस्य रूक्षाहारस्य भोजनं तक्रेण वा शक्त्यपेक्षया । कर्तव्याकरणीया । चाथवा क्षमा - अथवा क्षमा क्षमणं ॥ १३४ ॥
तदा तस्याः समुद्दिष्टा मौनेनावश्यक क्रिया । व्रतारोपः प्रकर्तव्यः पञ्चाच्च गुरुसन्निधौ ॥ १३५ ॥ तदा—तस्मिन् काले । तस्याः - आर्यायाः । समुद्दिष्टा - निगदिता । मौन – तूष्णीं भावेन । आवश्यक क्रिया -- समतास्तववन्दनाप्रतिक्रमणप्रत्याख्यान कायोत्सर्गाणां षण्णामावश्यकानां करणं । व्रतारोपः -- व्रतारोपणं । प्रकर्तव्यः – विधातव्यः । पश्चाच्च तदनन्तरमस्ति । गुरुसन्निधौआचार्यसमीपे ॥ १३५ ॥
1
स्नानं हि त्रिविधं प्रोक्तं तोयतो व्रतमंत्रतः ।
तोयेन स्याद्गृहस्थानां साधूनां व्रतमंत्रतः ॥ १३६ ॥ स्नानं - सर्वाङ्गशुद्धिः शौचं । हि —– यस्मात् । त्रिविधं -- त्रिभेदं । प्रोक्तं — परिकथितं । तोयतः -- तोयेन जलेन । व्रतमंत्रतः — व्रतेन संयमेन विशुद्धध्यानेन, मंत्रतः मंत्रेण परममंत्र पदोच्चारणैश्च विद्यादिभिः कृत्वा । एवं त्रिप्रकारं स्नानं भवति । तत्र, तोयेन - पानीयेन स्नानं । स्यात् - भवेत् । गृहस्थानां – गृहिणां । साधूनां - यतीनां तु । व्रतमंत्रतः व्रतैमैत्रैः स्नानं शौचं भवतीति । इयं परमार्थशुद्धिः । व्यवहारशुद्धिस्तु चाण्डालादिसंस्पर्शे सति व्रतं परिपालयद्भिः साधुभिः जलेनापि विधातव्या ॥ १३६ ॥ संयतिका - प्रायश्चित्तं ।
www