________________
१५२
प्रायश्चित्तसंग्रहे
श्चित्तं । उद्दिष्टं-कथितं । सोपस्थान--सप्रतिक्रमणं । विशोधनं-मलहरणम् ॥ १३० ॥
येन केनापि तल्लब्धं पुनद्रव्यं च किंचन ।
वैयावृत्यं प्रकर्तव्यं भवेत्तेन प्रयत्नतः ॥ १३१ ॥ येन केनापि-येन केनचिदुपायेन । तत्-पूर्वोक्तं । लब्धंप्राप्तं । पुनः-पुनरपि भूयः । द्रव्यं च-धनमपि । किंचन--कियदपि । वैयावृत्यं प्रकर्तव्यं भवेत्तेन तेनार्थेन, वैयावृत्यं धर्मप्राणिनामुपकारः, प्रकर्तव्यं विधेयं, भवेत् स्यात् । प्रयत्नतः-प्रयत्नान्निराबाधं । तदेव तस्याः प्रायश्चित्तम् ॥ १३१॥
भ्रातरं पितरं मुक्त्वा चान्येनापि सधर्मणा । - स्थानगत्यादिकं कुर्यात् सधर्मा छेदभागपि ॥ १३२ ॥
भ्रातरं-सहोदरं । पितरं–जनकं । मुक्त्वा –परित्यज्य । अन्येन-- परेण । अपि सधर्मणा--सधर्मणापि आस्तां तावदन्येन पुरुषेण गुरुभ्रात्रापि सह यदि, स्थानगत्यादिकं-स्थानं कायोत्सर्ग, गतिर्यानं मार्गगमनं, आदिशब्देनागमनं सहस्थितिप्रभृतिं च एकाकिनी, कुर्यात्-विधत्ते तदानी, सधर्मा छेदभागपि-आस्तां तावदार्या सधपि गुरुभ्रातापि, छेदभाक् प्रायश्चित्तभागी भवति ॥ १३२ ॥
बहून् पक्षांश्च मासांश्च तस्या देया क्षमा भवेत् ।
बलं भावं वयो ज्ञात्वा तथा सापि समाचरेत् ॥ १३३ ॥ बहून्- अनेकान् । पक्षान्-पंचदशरात्रान् । मासांश्च-त्रिंशद्रात्रानपि । तस्याः--पूर्वोक्ताया आर्यायाः । देया--दातव्या । क्षमाक्षमणं । भवेत्-स्यात् । बलं-सामर्थ्य स्थाम । भावं-परिणामं तीव्र मन्दमध्यमविशेषविशिष्टैः । वयः--दशां। ज्ञात्वा-अवगम्य।तथा---तेनैव न्यायेन । सापि--प्रागभिहितार्या च । समाचरेत् -कुर्यात् ॥ १३३ ॥