________________
प्रायश्चित्त- चूलिका ।
१५१
उभयोरपि — द्वयोरपि रूपधारिणोः । नो नाम ग्राह्यं नामाभिधानं नो ग्राह्यं नादेयं न वक्तव्यं । धिक् - कष्टं । नीचकर्मणोः - निकृष्टचेष्टयोः । अन्यश्चेत्कोऽपि तद्ब्रूयात् — चेयदि, अन्यः कोऽपि अपरश्र्व कश्चित्, तत्पूर्वोक्तं दूषणं, ब्रूयाज्जल्पति । पिधातव्ये ततः श्रुतीविधातव्ये छादयितव्ये, ततस्तदनन्तरं श्रुती कर्णौ ॥ १२७ ॥
स नीचोऽप्यभूते शुद्धिं शुद्धबुद्धिः प्रयत्नतः । देशकालान्तरात्तत्र लोकभावमवेत्य च ॥ १२८॥ सः - पूर्वोक्तसंयमरूपानुकारी । नीचोऽपि - अथर्मोऽपि । अश्नुते - प्रामोति । शुद्धिं - - प्रायश्चित्तं । शुद्धबुद्धिः – विविक्तमतिः सन् । प्रयत्नतः — प्रयत्नेन सम्यग्विधानेन । देशकालान्तरात् — कालान्तरे महति कालेऽतिक्रान्ते । तत्र लोकभावमवेत्य च -तत्र देशे यत्र प्रायश्चित्तं तस्य प्रदीयते, लोकभावं जनपरिणामं, अवेत्य च परिज्ञायापि अस्मिन् देशे दोषं न तावत्कोऽपि परिगृह्णातीति सम्यगवगम्य । अनेन विधानेनास्य विशुद्धिविधीयते ॥ १२८ ॥
शपथं कारयित्वाथ क्रियामपि विशेषतः ।
बहूनि क्षमाणान्यस्य देयानि गणधारिणा ॥ १२९ ॥
शपथं – कोशं । कारयित्वा - विधाप्य । अथ - अनन्तरं । क्रियामपि —- प्रतिक्रमणं च । विशेषतः - सविशेषं । बहूनि क्षमणानि - बहव उपवासाः । अस्य – एतस्य साधोः । देयानि – दातव्यानि । गणधारिणा - गणधरेण ॥ १२९ ॥
द्रव्यं चेद्धस्तगं किंचिद्बन्धुभ्यो विनिवेदयेत् ।
तदास्याः षष्ठमुद्दिष्टं सोपस्थानं विशोधनम् ॥ १३० ॥ द्रव्यं - वित्तं । चेत् — यदि । हस्तगं—करस्थं । किंचित् किमपि हिरण्यसुवर्णादि यत्तत् । बन्धुभ्यः – स्वजनेभ्यः । विनिवेदयेत् — प्रयच्छति । तदा तस्मिन् काले । अस्याः -- एतस्या आर्यायाः । षष्ठं - - षष्ठं प्राय
--
-