________________
१५०
प्रायश्चित्तसंग्रहे
रसानां स्यात्-भवेत् । परित्यागः--परिवर्जनं । चतुर्मासान् ( चतुरः) त्रिंशद्रात्रान् यावत् । असंशयं-निःसन्देहम् ॥ १२३॥
अब्रम्हसंयुता क्षिप्रमपनेयापि देशतः।
सा विशुद्धिबहिर्भूता कुलधर्मविनाशिका ॥ १२४ ॥ अब्रह्मसंयुता-अब्रह्मणा मैथुनेन संयुता संगता । क्षिप्रं-शीघ्रं । अपनेया-निर्धाटनीया । अपि देशतः-आस्तां तावदामादेः देशादपि तद्विषयादपि उद्वासनीया । सा विशुद्धिबहिर्भूता-सा पूर्वोक्ता संयतिका• रूपधारिणी, विशुद्धिबहिर्भूता प्रायश्चित्तविवर्जिता । कुलधर्मविनाशिकाकुलं गुरुकुलं च धर्मो जिनशासनं तयोर्विनाशिका दूषिका ॥ १२४ ॥
तद्दोषभेदवादोऽपि पण्डितानां न कल्पते । __ अन्योक्तं लक्षणीयं न तत्प्रहेयं प्रयत्नतः ॥ १२५ ॥
तदोषभेदवादोऽपि-तस्य पूर्वोक्तसंयमविषयस्य दोषस्य भेदवादः प्रकाशनं च । पण्डिताना-सम्यग्ज्ञानवतां पुरुषाणां । न कल्पते-न युज्यते। अन्योक्तं लक्षगीयं न-अन्यैरपि कैश्चिदुक्तमभिहितमपि लक्षणीयं न-न लक्षणीयं न लक्षयितव्यं नोपलक्षणीयं । तत्प्रहेयं-तज्जल्पनकं, प्रहेयं परित्याज्यमेव । प्रयत्नतः-अत्यन्ततात्पर्यात् ॥ १२५ ॥
यतिरूपेण वाच्याता चेदार्यानामधारिका ।
हा! हा ! कष्ट महापापं न श्रोतुमपि युज्यते ॥ १२६ ॥ यतिरूपेण-संयतनामधारिणा सह । वाच्याप्ता चेत् -यदि वाच्याप्ता वाच्यं जल्पनकं, आप्ता प्राप्ता, भवति । आर्यानामधारिका-विरतिकाभिधानवाहिका । हा हा कष्टं-हा हा धिग्धिक्, कष्टं निकृष्टं । महापापंमहापातकं । तत्तेन, श्रोतुमपि न युज्यते- आस्तां तावज्जल्पनं संप्रश्नो वा श्रोतुमपि आकर्णयितुमपि न युज्यते न कल्पते न वर्तते ॥ १२६ ॥
उभयोरपि नो नाम ग्राह्यं धिङीचकर्मणोः। अन्यश्चेत्कोऽपि तब्रूयात् पिधातव्ये ततः श्रुती ॥ १२७ ॥