________________
प्रायश्चित्त-चूलिका।
क्षायां-निर्ग्रन्थलिंगस्य । कुलहीने--कुलविकले वर्णत्रयपरिच्युते । न दीक्षास्ति-निम्रन्थलिंगं न भवति । जिनेन्द्रोद्दिष्टशासने-जिनेन्द्रोपदिष्टदर्शने । उक्तं च
त्रिषु वर्णेष्वेकतमः कल्याणं ( णां ) गः तपःसहो वयसा ।
सुमुखः कुत्सारहितो दीक्षाग्रहणे पुमान् योग्यः ॥ इत्यादि । न्यक्कुलानामचेलैकदीक्षादायी दिगम्बरः । जिनाज्ञाकोपनोनन्तसंसारः समुदाहृतः ॥ १०७ ॥ न्यक्कुलानां-नीचकुलानां वर्णत्रयबहिर्भूतानां । अचेलैकदीक्षादायी-अचेलां निर्ग्रन्थां, एकां सकल जगत्प्रधानभूतां, दीक्षां प्रव्रज्यां ददातीत्येवं शीलः । दिगम्बरः-साधुः। जिनाज्ञाकोपनः सर्वज्ञवचनप्रतिकूलः । अनन्तसंसार:-अपर्यन्तभवसन्ततिः । समुदाहृतःपरिकथितः ॥ १०७॥ ___ दीक्षां नीचकुलं जानन् गौरवाच्छिष्यमोहतः ।
यो ददात्यथ गृह्णाति धर्मोद्दाहो द्वयोरपि ॥ १०८॥ दीक्षां-प्रव्रज्यां । नीचकुलं-भ्रष्टकुलं । जानन्-अवगच्छन्नपि । गौरवात्-ऋद्धिगर्वात् । शिष्यमोहतः-शिष्यस्नेहात् । यो-यः साधुः । ददाति-निर्ग्रन्थलिंगं प्रयच्छति । अथ गृह्णाति-अथवा यः पुरुषो निग्रन्थरूपमाददाति । तयोः, धर्मोद्दाहः-चतुर्वर्णोपतप्तिः धर्मदूषणं । द्वयोरपि-उभयोश्च आदातृगृहीत्रोर्भवति ॥ १०८ ॥ ___अजानाने न दोषोऽस्ति ज्ञाते सति विवर्जयेत् ।
आचार्योऽपि स मोक्तव्यः साधुवगैरतोऽन्यथा ॥ १०९ ॥ अतोऽन्यथा-अतः एतस्मान्न्यायात् सकाशात्, अन्यथा अन्येन विधिना । स-पूर्वोक्तः । आचार्यः---सूरिः । मोक्तव्यः-ताज्यः । साधुवर्ग:-साधुसमूहैः ॥ १०९ ॥
१ पूर्वार्धस्य रीकापाठः त्रुटितोऽवभाति, सुगमः ।