Book Title: Prayaschitta Sangraha
Author(s): Pannalal Soni
Publisher: Manikyachandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 168
________________ प्रायश्चित्त- चूलिका । १५१ उभयोरपि — द्वयोरपि रूपधारिणोः । नो नाम ग्राह्यं नामाभिधानं नो ग्राह्यं नादेयं न वक्तव्यं । धिक् - कष्टं । नीचकर्मणोः - निकृष्टचेष्टयोः । अन्यश्चेत्कोऽपि तद्ब्रूयात् — चेयदि, अन्यः कोऽपि अपरश्र्व कश्चित्, तत्पूर्वोक्तं दूषणं, ब्रूयाज्जल्पति । पिधातव्ये ततः श्रुतीविधातव्ये छादयितव्ये, ततस्तदनन्तरं श्रुती कर्णौ ॥ १२७ ॥ स नीचोऽप्यभूते शुद्धिं शुद्धबुद्धिः प्रयत्नतः । देशकालान्तरात्तत्र लोकभावमवेत्य च ॥ १२८॥ सः - पूर्वोक्तसंयमरूपानुकारी । नीचोऽपि - अथर्मोऽपि । अश्नुते - प्रामोति । शुद्धिं - - प्रायश्चित्तं । शुद्धबुद्धिः – विविक्तमतिः सन् । प्रयत्नतः — प्रयत्नेन सम्यग्विधानेन । देशकालान्तरात् — कालान्तरे महति कालेऽतिक्रान्ते । तत्र लोकभावमवेत्य च -तत्र देशे यत्र प्रायश्चित्तं तस्य प्रदीयते, लोकभावं जनपरिणामं, अवेत्य च परिज्ञायापि अस्मिन् देशे दोषं न तावत्कोऽपि परिगृह्णातीति सम्यगवगम्य । अनेन विधानेनास्य विशुद्धिविधीयते ॥ १२८ ॥ शपथं कारयित्वाथ क्रियामपि विशेषतः । बहूनि क्षमाणान्यस्य देयानि गणधारिणा ॥ १२९ ॥ शपथं – कोशं । कारयित्वा - विधाप्य । अथ - अनन्तरं । क्रियामपि —- प्रतिक्रमणं च । विशेषतः - सविशेषं । बहूनि क्षमणानि - बहव उपवासाः । अस्य – एतस्य साधोः । देयानि – दातव्यानि । गणधारिणा - गणधरेण ॥ १२९ ॥ द्रव्यं चेद्धस्तगं किंचिद्बन्धुभ्यो विनिवेदयेत् । तदास्याः षष्ठमुद्दिष्टं सोपस्थानं विशोधनम् ॥ १३० ॥ द्रव्यं - वित्तं । चेत् — यदि । हस्तगं—करस्थं । किंचित् किमपि हिरण्यसुवर्णादि यत्तत् । बन्धुभ्यः – स्वजनेभ्यः । विनिवेदयेत् — प्रयच्छति । तदा तस्मिन् काले । अस्याः -- एतस्या आर्यायाः । षष्ठं - - षष्ठं प्राय -- -

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202