Book Title: Prayaschitta Sangraha
Author(s): Pannalal Soni
Publisher: Manikyachandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 169
________________ १५२ प्रायश्चित्तसंग्रहे श्चित्तं । उद्दिष्टं-कथितं । सोपस्थान--सप्रतिक्रमणं । विशोधनं-मलहरणम् ॥ १३० ॥ येन केनापि तल्लब्धं पुनद्रव्यं च किंचन । वैयावृत्यं प्रकर्तव्यं भवेत्तेन प्रयत्नतः ॥ १३१ ॥ येन केनापि-येन केनचिदुपायेन । तत्-पूर्वोक्तं । लब्धंप्राप्तं । पुनः-पुनरपि भूयः । द्रव्यं च-धनमपि । किंचन--कियदपि । वैयावृत्यं प्रकर्तव्यं भवेत्तेन तेनार्थेन, वैयावृत्यं धर्मप्राणिनामुपकारः, प्रकर्तव्यं विधेयं, भवेत् स्यात् । प्रयत्नतः-प्रयत्नान्निराबाधं । तदेव तस्याः प्रायश्चित्तम् ॥ १३१॥ भ्रातरं पितरं मुक्त्वा चान्येनापि सधर्मणा । - स्थानगत्यादिकं कुर्यात् सधर्मा छेदभागपि ॥ १३२ ॥ भ्रातरं-सहोदरं । पितरं–जनकं । मुक्त्वा –परित्यज्य । अन्येन-- परेण । अपि सधर्मणा--सधर्मणापि आस्तां तावदन्येन पुरुषेण गुरुभ्रात्रापि सह यदि, स्थानगत्यादिकं-स्थानं कायोत्सर्ग, गतिर्यानं मार्गगमनं, आदिशब्देनागमनं सहस्थितिप्रभृतिं च एकाकिनी, कुर्यात्-विधत्ते तदानी, सधर्मा छेदभागपि-आस्तां तावदार्या सधपि गुरुभ्रातापि, छेदभाक् प्रायश्चित्तभागी भवति ॥ १३२ ॥ बहून् पक्षांश्च मासांश्च तस्या देया क्षमा भवेत् । बलं भावं वयो ज्ञात्वा तथा सापि समाचरेत् ॥ १३३ ॥ बहून्- अनेकान् । पक्षान्-पंचदशरात्रान् । मासांश्च-त्रिंशद्रात्रानपि । तस्याः--पूर्वोक्ताया आर्यायाः । देया--दातव्या । क्षमाक्षमणं । भवेत्-स्यात् । बलं-सामर्थ्य स्थाम । भावं-परिणामं तीव्र मन्दमध्यमविशेषविशिष्टैः । वयः--दशां। ज्ञात्वा-अवगम्य।तथा---तेनैव न्यायेन । सापि--प्रागभिहितार्या च । समाचरेत् -कुर्यात् ॥ १३३ ॥

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202