Book Title: Prayaschitta Sangraha
Author(s): Pannalal Soni
Publisher: Manikyachandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 149
________________ प्रायश्चित्तसंग्रहे च सेवने भंजने सति । कल्याणं-पंचकं भवति । सकृत्-एकवारं । आख्यातं-अभिहितं । पंचकल्याणं-मासिकं । अन्यथा-अन्येन प्रकारेण असकृदित्यर्थः ॥ ६९ ॥ अस्नानक्षितिशयनदन्तधावनानि । अस्थित्यनेकसंभुक्तेऽदर्प दर्प सकृन्मुहुः। कल्याणं मासिकं छेदः क्रमान्मूलं प्रकाशतः ॥७॥ अस्थित्यनेकसंभुक्ते-संभोजनं भक्तिः,-अस्थितिरनूर्ध्वभावः तया अस्थित्या संभोजनं, न एकं अनेकं अनेकं च तच्च संभुक्तं चानेकसंभुक्तं अनेक वारभोजनं, तस्मिन्नस्थितिभोजनेऽनेकभक्ते च सति ।अदर्प-अग ।दअहंकारे। सकृत्-एकवारं । मुहुः–पुनः । कल्याणं-पंचकं अनहंकारे सकृत् । असकृन्मासिकं । दर्पतः सकृत् प्रवज्याच्छेदः । असकृत्, कमात्क्रमेण, मूलं-पुनर्दीक्षा । प्रकाशतः-प्रकाशात् साभोगेन लोकानामवलोकमानानां स्थितिभुक्तकभक्तमूलगुणयोभंगे प्रायश्चित्तं भवति ॥ ७० ॥ स्थितिभोजनैकभक्ते। समितीन्द्रियलोचेषु भूशयेऽदन्तघर्षणे। कायोत्सर्गः सकृद्भूयः क्षमणं मूलमन्यतः ॥ ७१ ॥ समितीन्द्रियलोचेषु--समितिषु ईभिाषेषणादाननिक्षेपणप्रतिष्ठापनसमितिषु, इन्द्रियेषु स्पर्शनरसनघ्राणचक्षुःश्रोत्रेषु, लोचे बालोत्पाटे । भूशये-भूमिशयने । अदन्तघर्षणे-अदन्तधावने मूलगुणेषु च । सर्वेऽवेतेषु मूलगुणेषु संक्लेशादिदोषविशेषे समुत्पन्ने सति अतिस्तोके मिथ्याकारः ततोऽधिक स्वनिन्दा, ततोऽपि गर्दा, ततश्चालोचना, ततो लघुकायोत्सर्गः, ततो मध्यमकायोत्सर्गः, ततः प्रवर्धमानस्तावद्यावन्महाकायोत्सर्गोष्टोत्तरशतो

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202