SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ प्रायश्चित्त-चूलिका। १२३ rnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnn भाषासमितिमुन्मुच्य-भाषासयमं उन्मुच्य परिहृत्य व्यतिक्रम्य । मौन कलहकारिण:-कलिविधायिनः मुनेः, मौनं वाचंयमत्वं वाक्संयमः प्रायश्चित्तं भवति।क्षमणं च गुरूद्दिष्टमपि [स्यात् ] गुरुद्दिष्टमाचार्योद्दिष्टमपि । षट्कर्मदे शिनः--षट्कर्मदेशिनो हि प्रायश्चित्तमपि, वाणिज्यविद्योपदेशिनः षड्जीवनिकायवाधाभिः कर्मोपदेशिनो वापि क्षमणं प्रायश्चित्तं भवति ॥ ४५ ॥ असंयमजनज्ञातं कलहं विदधाति यः। बहूपवाससंयुक्तं मौनं तस्य वितीर्यते ॥४६ ॥ असंयमजनज्ञातं-मिथ्यादृष्टिलोकावबुद्धं । कलहं-कलिं । विद. धाति-करोति । यः-साधुः । बहूपवाससंयुक्तं-भूरिक्षमणसमन्वितं । मौनं-वाचंयमत्वं । तस्य-साधोः। वितीर्यते-दीयते ॥ ४६ ॥ कलहेन परीतापकारिणः मौनसंयुताः । उपवासा मुनेः पंच भवन्ति नृविशेषतः ॥४७॥ कलहेन-कलिना कृत्वा । परीतापकारिणः-सन्तापविधायिनः । मौनसंयुता:-वाचंयमत्वोपलशिताः । उपवासा:-क्षमणानि । मुनेःसाधोः । पंच-पंचोपवासाः । भवन्ति-सन्ति । नृविशेषतः-पुरुषविशेषात् । मन्दग्लानादिपुरुषविशेषमगवगम्य देयाः ॥ ४७॥ जनज्ञातस्य लोचस्य बहुभिः क्षमणैः सह । आषण्मासं जघन्येन गुरूद्दिष्टं प्रकर्षतः ॥ ४८॥ . जनज्ञातस्य- सकललोकावगतस्य कलहस्य सतः । लोचस्य-वालोत्पाटस्य भवति । बहुभिः-भूरिभिः । क्षमणै-रुपवासैः । सार्ध-समं । आषण्मासं जघन्येन-जघन्येन सर्वतः स्तोककालेन आषण्मासं एकोपवासादिषण्मासपर्यन्तं प्रायश्चित्तं । गुरूद्दिष्टं प्रकर्षतः---प्रकर्षणोत्कर्षेण गुरूद्दिष्टमाचार्योपदिष्टं भवति ॥ ४८॥ १ अस्य स्थाने पुस्तके लोचश्चेति पाठः, किन्तु मूले लोचस्येति
SR No.022325
Book TitlePrayaschitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year1922
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy