________________
प्रायश्चित्तसंग्रहे-
हस्तेन हन्ति पादेन दण्डेनाथ प्रताडयेत् । एकाद्यनेकधा देयं क्षमणं नृविशेषतः ॥ ४९ ॥
१२४
हस्तेन करेण । हंति -- ताडयति । पादेन चरणेन । दण्डेन -
लकुटेन । अथ-अथवा । प्रताडयेत् - हंति । यदि साधुः कथमपि तदा, एकादि -- एकप्रभृति । अनेकधा - अनेकप्रकारं । क्षमणं - उपवासः । देयं - दातव्यं । नृविशेषतः पुरुषविशेषेण ॥४९॥
-
यच प्रोत्साह्य हस्तेन कलहयेत् परस्परं । असंभाष्योऽस्य षष्ठं स्यादाषण्मासं सुपापिनः ॥ ५० ॥ यश्व -- योऽपि यतिरूपः । प्रोत्साह्य -- प्रचोद्य । हस्तेन करेण । कलहयेत् -- कलहं कारयेत् । परस्परं - अन्योन्यं । सः, असंभाष्यो - नभिलाप्यः । अस्य - एतस्य । षष्ठं - प्रायश्चित्तं । स्यात् - भवेत् । आषण्मासं षण्मास - पर्यन्तं । सुपापिनः - पापिष्ठस्य ॥ ५० ॥
―
छिन्नापराधभाषायामप्यसंयतबोधने ।
नृत्यगायेति चालापेऽप्यष्टमं दण्डनं मतम् ॥ ५१ ॥
छिन्नापराधभाषायां -- कृतप्रायश्चित्तस्य दोषस्य पुनः परिभाषणे कृते सति । अप्यसंयतबोधने -सुप्तस्यासंयतस्य विरतस्योत्थापनेऽपि । नृत्यगायेति चालापे - नृत्यनटगाय आलापय ( ? ) इति एवमपि आलापे निगदिते । चशब्दात् व ( न ) र्तने च गाने च । अष्टमं – त्रयउपवासाः निरन्तराः । दण्डनं - प्रायश्चित्तं । मतं - इष्टः ॥ ५१ ॥
चतुर्वर्णापराधाभिभाषिणः स्यादवन्दनः ।
असंभाष्यश्च कर्तव्यः स गाणं गणिकोऽपि च ॥ ५२ ॥ चतुर्वर्णापराधाभिभाषिणः- चतुर्वणः ऋषिवर्णः ऋषिमुनियत्यनगाराः - साध्वार्याश्रावक श्राविका वा तस्यापराधं दोषं अभिभाषते इत्येवं शीलः - साधुः । स्यात् - भवेत् । अवन्दनः- - अवन्द्यः । असंभाग्यश्च - अनभि..