________________
प्रायश्चित्तसंग्रहे
अपि च संयतिकानां च । जलकेलिमहासृणि:--जलकेलिः जलकीडा तस्या विनिवारणे महासृणिश्च तस्य प्रायश्चित्तं नाम ॥ ४१ ॥ . युग्यादिगमने शुद्धिं द्विगुणां पथिशुद्धितः ।
ज्ञात्वा नृजातं वाचार्यो दद्यात्तद्दोषघातिनीम् ॥ ४३ ॥ युग्यादिगमने-युग्ययानादिप्रयाणे । अस्य [वि] शुद्धिं-प्रायश्चित्तं । द्विगुणां-द्विः (?)। पथिशुद्धितः--पथः शुद्धिः पथिशुद्धिस्तस्याः पथिशुद्धितः मार्गगमनप्रायश्चित्तात् सकाशात् । ज्ञात्वा--अवबुद्धय ।नृजातंपुरुषजातसामान्यं मन्दग्लानादिकं । आचार्यो-गणेन्द्रः । दद्यात्प्रयच्छेत् । तदोषघातिनी-तस्य पुरुषस्य दोषघातिनी, अथवा स चासो दोषश्च तद्दोषस्तस्य घातिनी शीलां विनाशिकां शुद्धिं । वम॑गमने यत्प्रायश्चित्तं प्रग्विनिश्चित्तं तदेव दोलिकादिगमने कथंचित्सम्पन्ने सति द्विगुणं भवतीति योज्यम् ॥ ४३॥
सप्तपादेषु निष्पिच्छः कायोत्सर्गाद्विशुद्धयति ।
गव्यूतिगमने शुद्धिमुपवासं समश्नुते ॥ ४४ ॥ सप्तपादेषु–सप्तसु पादेषु गमने सति । निष्पिच्छः-प्रतिलेखविरहितः साधुः । कायोत्सर्गात्-तनूत्सर्गात्प्रायश्चित्तात् । विशुद्धयति-निर्दोषो भवति । गव्यूतिगमने--क्रोशमात्रप्रयाणे सति निष्पिच्छः । शुद्धिं प्रायश्चित्तं । उपवासं-क्षमणं । समश्नुते--प्राप्नोति । द्विगुणमित्यधिकाराकोशादनन्तरं प्रतिक्रोशं द्विगुणां द्विगुणां शुद्धिं समश्नुते इति व्याख्यातव्यम् ॥४४॥
ईर्यासमितिः।
भाषासमितिमुन्मुच्य मौनं कलहकारिणः । क्षमणं च गुरूद्दिष्टमपि षट्कर्मदेशिनः ॥ ४५ ॥ : ... .