________________
प्रायश्चित्त-चूलिका।
१२१
पानीये गतस्य उपवासः । ततः परं चतुरंगुले चतुरङ्गले जले सति द्विगुणा द्विगुणा उपवासा भवन्ति ॥ ३९ ॥
दण्डैः षोडशभिर्मेये भवन्त्येते जलेऽअसा। ' कायोत्सर्गोपवासास्तु जन्तुकीणे ततोऽधिकाः॥४०॥ दण्डैः-चतुर्हस्तप्रमाणैः । षोडशभिर्मेये-षोडशाभिर्दण्डैर्मेये परिच्छेदाः । भवन्ति-सन्ति। एते-इमे प्रागुक्ताः। जले-पानीये। अंजसा-परमार्थेन स्फुटं । कायोत्सर्गोपवासाः-कायोत्सर्गा उपवासाश्च सन्ति । जन्तुकीर्णे-तु, जन्तुकीर्णे पुनः प्राणिगणसंभृते सति । ततः-तेभ्यः कायोत्सर्गोपवासेभ्यः । अधिका:--प्रवृद्धाः । षोडशदण्डप्रमाणे पानीये मध्येन गतस्य साधोः पूर्वोक्ताः कायोत्सर्गोपवासा भवन्ति न न्यूने । सजुन्तुके तु ततोऽभ्यधिकाश्च पूर्वोद्दिष्टप्रायश्चित्तप्रमाणकायोत्सर्गोपवासेभ्यः सकाशात् सातिरेकाः सातिरेकाः कायोत्सर्गोपवासा भवन्तीत्यर्थः ॥ ४०॥
स्वपरार्थप्रयुक्तैश्च नावाद्यैस्तरणे सति।।
स्वल्पं वा बहु वा दद्याज्ज्ञातकालादिको गणी ॥ ४१ ॥ स्वपरार्थप्रयुक्तैश्व-स्वार्थमात्मनि निमित्तं, परार्थमन्यजनहेतोः, प्रयुक्तैः प्रेरितैः प्रयोजितैः । नावायैः-द्रोणीप्रभृतिभिः कृत्वा । तरणे-जले उत्तरणे । सति-विद्यमाने । स्वल्पं-स्तोकं कायोत्सर्ग । बहु वा-अथवा भूर्यपि । दद्यात्-प्रयंच्छेत् । ज्ञातकालादिकः-अवमितकालादिकः कालमवबुद्ध्य प्रायश्चित्तं वितरति । गणी -आचार्यः ॥ ४१॥
दक्षेण गणिना देयं जलयाने विशोधनम् ।
साधूनामपि चार्याणां जलकेलिमहासृणिः ॥ ४२ ॥ . दक्षेण-कुशलेन । गणिना-आचार्येण । देयंदातव्यं । जलयाने पानीयगमने । विशोधनं-प्रायश्चित्तं। साधूनां यतीनां । अपि चार्याणां१ अस्य स्थाने केलि इति पाठः पुस्तके। ..