________________
१२०
प्रायश्चित्तसंग्रहे
हिमे कोशचतुष्केणाप्यष्टमं षष्ठमीर्यते ।
ग्रीष्मे क्रोशेषु षट्सु स्यात् षष्ठमन्यत्र च क्षमा ॥ ३७ ॥ हिमे — हिमकाले । कोशचतुष्केणापि - गव्यूतिचतुष्टयेन गत्वा । अष्टमं - अष्टमप्रायश्चित्तं भवति । प्रासुके तु षष्ठं स्यात् । ग्रीष्मे - उष्णकाले । क्रोशेषु षट्सु — षट्सु गव्यूतिषु । स्यात् — भवेत् । षष्ठं - द्वावुपवासौ निरन्तरौ । अन्यत्र च - प्रासुकमार्गेऽपि । क्षमा - क्षमणमुपवासः । उष्णकाले षट्सु क्रोशेषु रात्रिगमने सति अप्रासुकमार्गेण षष्ठं प्रायश्चित्तं । प्रासुकमार्गे पुनः क्षमणं भवति ॥ ३७ ॥
सप्रतिक्रमणं मूलं तावन्ति क्षमणानि च ।
स्याल्लघुः प्रथमे पक्षे मध्येन्त्ये योगभंजने ॥ ३८ ॥
1
सप्रतिक्रमणं -- प्रतिक्रमणया सहितं । मूलं -- पंचकल्याणं । तावन्तितत्प्रमाणानि । क्षमणानि च - - उपवासाश्व । स्यात् -- भवेत् । लघुः -- लघुमासः । प्रथमे पक्षे- आये पंचदशरात्रे | मध्ये - मध्यकाले | अन्त्येअन्ते भवोऽन्त्यस्तस्मिन्नन्त्ये चरमे पक्षे | योगभंजने - योगभंगे । वर्षासु विद्धर ( ? ) देशभंगादिकारणाद्योगे भने सति प्रथमपक्ष एव सोपस्थानं मासिकं प्रायश्चित्तं भवति । प्रथमपक्षार्धे यावन्तो दिवसा तिष्ठन्ति तावन्त उपवासाः प्रायश्चित्तं । ततोऽन्त्ये काले पक्षे शेषे भिन्ने सति लघुमासः प्रायश्चित्तं भवति ॥ ३८ ॥
जानुदने तनूत्सर्गः क्षमणं चतुरंगुले ।
1
द्विगुणा द्विगुणास्तस्मादुपवासाः स्युरम्भसि ॥ ३९ ॥ जानुदघ्न – जानुमात्रे । अंभसि - | तनूत्सर्गः - कायोत्सर्ग । क्षमणं - उपवासः प्रायश्चित्तं तस्य । चतुरंगुले -- चतुरंगुलप्रमाणे सति । द्विमुणा द्विगुणास्तस्मात् - ततः । उपवासाः -क्षमणानि । स्युः - भवेयुः । अभसि पानीये मध्येन गतस्य सतः कायोत्सर्गः प्रायश्चित्तं भवति । ततश्चतुरंगुले