Book Title: Pramana Pariksha
Author(s): Vidyanandacharya, Darbarilal Kothiya
Publisher: Veer Seva Mandir Trust
View full book text
________________
प्रमाणलक्षण-परीक्षा : ३
८. अथादृष्टविशेषो गुणः सहकारी तत्सांनिध्यं संयुक्तसमवायः ", चक्षुषा संयुक्ते पुरुषेऽदृष्टविशेषस्य समवायादिति मन्यध्वम् तर्हि कदाचिन्नभसि नायनसंवेदनोदयः कुतो न भवेत् । सर्वदा सर्वस्य तत्रादृष्टविशेषस्य सहकारिणोऽसंनिधानादिति चेत् कथमेवमीश्वरस्य नभसि चक्षुषा ज्ञानं श्रोत्रादिभिरिव घटेत । समाधिविशेषोपजनितधर्मविशेषान गृहीतेन मनसा गगनाद्यशेषपदार्थ संवेदनोदये तु महेश्वरस्य बहिःकरणमनर्थकता - मियात्, फलासंभवात् । बहिःकरणरहितस्य च नान्तःकरणमुपपद्येत, परिनिर्वृतात्मवत् । ततः कथमन्तः करणेन गगनादिग्रहणम् । मनसोऽसंभवे च न समाधिविशेषस्तदुपजनितधर्मविशेषो वा घटामटाटयते, तस्यात्मान्त:करणसंयोगनिबन्धनत्वात् ।
,
$ ९. स्यान्मतं ते ' - शिशिररश्मिशेखरस्य समाधिविशेषसंततिर्धर्मविशेषसंततिश्च सर्वार्थज्ञानसंततिहेतुरनाद्यपर्यवसाना, सततमेनोमलैरस्पृष्ठत्वात् तस्य संसारि-सादिमुक्तविलक्षणत्वात् सर्वदा मुक्ततयैव प्रसिद्धत्वात् इति तदप्यसमीचीनम्ः एवमनीश्वरस्यापि एनोमलविलयादेवा 11. र्थसंवेदनोद्भवप्रसक्तेः । सततमेनोमलाभावो हि यथा सततमर्थज्ञानसन्तानहेतुरुररीक्रियते तथा कादाचित्कैनोमलाभावः कदाचिदर्थप्रमितिनिमित्तमिति युक्तमुत्पश्यामः, तस्यैव संनिकर्ष सहकारितोपपत्तेः । तत्सांनिध्यस्यैव च संनिकर्षशक्तिरूपत्वसिद्धेः । " तदभावादेव च नयनसंनिकर्षेऽपि नभसि संवेदनानुत्पत्तिघटनात् । तत्रं विशिष्टधर्मोऽपि न पापमलापायादपरः प्रतिपद्यते, भावान्तरस्वभावत्वादभावस्य निःस्वभावस्य सकलप्रमाणगोचरातिक्रान्तत्वेन व्यवस्थापयितुमशक्यत्वादिति पुरुषगुणविशेषसद्भाव एव पापमाभावो विभाव्यते । स चात्मविशुद्धिविशेषो ज्ञानावरण- वीर्यान्त
1 2
,
१. तुलना - ' प्रमातृगतोऽप्यदृष्टोऽन्यो वा गुणो गगनेन्द्रियसन्निकर्षसमयइंस्त्येव । " - प्रमेयक० १-१ । २. महेश्वरस्य । ३. महेश्वरस्य । ४. एनो
लाभावस्यैव । ५. एनोमला भाव सांन्निध्याभावादेव । ६. महेश्वरे । ७. तुलना'भवत्यभावोऽपि च वस्तुधर्मो भावान्तरं भाववदर्हतस्ते । प्रमीयते च व्यपदिश्यते च वस्तुव्यवस्थाङ्गममेयमन्यत् ॥ ' -- युक्त्यनुशा. का. ५९ ।
1. 'समवायेन' मु । 2. ' पुरुषे त्वदृष्ट' मु । 3 'घटते' मु । 4. 'परनिर्वृत्त' मुं । 5. करणेन विना गगनादिग्रहणं' ब ब । 'करणेन धर्मादिग्रहणं' अ मु । मूले स प्रति-पाठो निक्षिप्तः । 6. 'निबन्धनात् ' मु । 7. 'ते' नास्ति मु । 8. 'अनादिरपर्यवसाना' ब स द । 9 'सर्वथा' मु । 'सदा' स । 10. 'एवमीश्वरस्यापि ' मु । 11. 'विलयादेरेव' भु। 12. 'निमित्तयुक्त- ' मु। 13. 'तद्भावादेव' मु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212