Book Title: Pramana Pariksha
Author(s): Vidyanandacharya, Darbarilal Kothiya
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 153
________________ प्रमाणलक्षण-परीक्षा : ११ दर्शनं दृश्यविषयं सर्वज्ञानां स्वरूपमात्रपर्यवसितत्वात् । उपचारादेव बहिर्विषयताव्यवहारात् इति; तदप्यसत्; वस्तुनः स्वाकारार्पकत्वस्यापि पूर्वपर्यनुयोगानतिक्रमात् । तद्धि स्वलक्षणं येन स्वभावेन सुगतदर्शनाय स्वाकारमर्पयति तेनैवेतरजनदर्शनाय', स्वभावान्तरेण वा? यदि तेनैव, तदा तदेव सुगतेतरजनदर्शनकत्वमापनीपद्यते । तथा च सर्वस्य सुगतत्वम् इतरजनत्वं वा दुर्निवारतामाचनीस्कन्येत । स्वभावान्तरेण स्वाकारार्पकत्वे स एव वास्तवः स्वभावभेदः स्वलक्षणस्याक्षणतया कथं प्रतिक्षिप्येत। यत्पुनः स्वाकारार्पकत्वमपि न वस्तुनः परमार्थपथप्रस्थायि समवस्थाप्यते स्वरूपमात्रविषयत्वात्सकलसंवेदनानामिति मतम्; तदपि दुरुपपादमेव तेषां वैयर्थ्यप्रसंगात् । ज्ञानं हि ज्ञेयप्रसिद्धयर्थं प्रेक्षवताऽन्विष्यते प्रकाशप्रसिद्धयर्थं प्रदीपवत् । न स्वरूपप्रसिद्धयर्थं प्रदीपवदेवेति । बहिरर्थाविषयत्वे सकलसंवेदनानां कथमिव वैयर्थ्यं न स्यात् । निविषयस्वप्नादिसंवेदनानामपि सार्थकत्वप्रसंगाच्च स्वरूपप्रकाशनस्य प्रयोजनस्य सर्वत्र भावात् । ६२३. किञ्च, सुगतसंवेदनस्यापि स्वरूपमात्रपर्यवसितायां कथमिव सुगतः सर्वदर्शीष्यते पृथग्जनवत् । पृथग्जनो वा कथं न सर्वदर्शी सुगतवदनुमन्येत । स्वरूपमात्रपर्यवसितायाः तत्संवेदनेऽपि सद्भावात् । $ २४. यदि पुनर्न वास्तवं10 सकलवेदित्वं11 तथागतस्योररीक्रियते संवृत्त्या तस्य व्यवहारिभिः12 संव्यवहरणात् । तदव्यवहरणे13 तद्वचनस्य सत्यताव्यवहारानुपपत्तेः सकलज्ञानरहितपुरुषोपदेशाद्विप्रलम्भनशंकनप्रसंगात् । तदुक्तम् ज्ञानवान् मृग्यते कश्चित्तदुक्तप्रतिपत्तये । अज्ञोपदेशकरणे विप्रलंभनशंकिभिः ॥ [ ] इति प्रतिपद्येता तथापि15 न सुगतेतरव्यवहारसिद्धिः, सुगतवदितरजनस्यापि संवृत्त्या सकलवेदित्वपरिकल्पनानुषंगात्।। सकलपदार्थेभ्यः 1. 'दर्शनानां' स। 2. 'नानास्वभावान्तरेण' ब। 3. 'मुपनीपोत' अ। 4. 'आचनीस्कन्द्यते' मु। 5. 'प्रतिक्षिप्यते' म्। 6. प्रेक्षावतामन्विष्यते' मु । 7. 'प्रदीपादिवत्' मु। 8. 'प्रसंगात्' मु। 9. 'पर्यवसिततायाः' ब स द । 10. 'पुनर्वास्तवत्वं' मु। 11. 'ताथागतस्य' म । 12. 'संव्यवहारिभि-' ब द । 13. 'तदव्यहरणे' मु। 14. 'तथापि सुगते-' मु। 15. 'कल्पनानुषंगात्' म । 16. 'प्रतिपाद्यत' बस। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212