Book Title: Pramana Pariksha
Author(s): Vidyanandacharya, Darbarilal Kothiya
Publisher: Veer Seva Mandir Trust
View full book text
________________
प्रमाणसंख्या-परीक्षा : ५३ $ १३८. तथा कारणविरुद्धव्याप्यं लिंगम्-न सन्ति सर्वथैकान्तवादिनः प्रशमसंवेगानुकम्पास्तिक्यानि, वैपर्यासिकमिथ्यादर्शनविशेषात्, इति । प्रशमादीनां हि कारणं सम्यग्दर्शनम्, तद्विरुद्ध मिथ्यादर्शनसामान्यम्, तेन व्याप्यं मिथ्यादर्शनं वैपर्यासिकं विशिष्टमिति ।
$ १३९, व्यापकविरुद्धव्याप्यम्-न सन्ति स्याद्वादिनो वैपर्यासिकादिमिथ्यादर्शनविशेषाः सत्यज्ञानविशेषात्, इति । वैपर्यासिकादिमिथ्यादर्शनविशेषाणां हि व्यापकं मिथ्यादर्शनसामान्यम्, तद्विरुद्ध तत्त्वज्ञानसामान्यम्, तस्य व्याप्यस्तत्त्वज्ञानविशेष इति ।
१४०. कारणव्यापकविरुद्धव्याप्यम--न सन्ति अस्य प्रशमादीनि, मिथ्याज्ञानविशेषात्, इति । प्रशमादीनां हि कारणं सम्यग्दर्शनविशेषः, तस्य व्यापकं सम्यग्दर्शनसामान्यम, तद्विरुद्ध मिथ्याज्ञानसामान्यम्, तेन व्याप्तो मिथ्याज्ञानविशेष इति ।
$१४१. व्यापककारणविरुद्धव्याप्यं लिंगम्-न सन्ति अस्य तत्त्व. ज्ञानविशेषाः, मिथ्यार्थोपदेशग्रहणविशेषात्, इति । तत्त्वज्ञानविशेषाणां हि' व्यापकं तत्त्वज्ञानसामान्यम्, तस्य कारणं तत्त्वार्थोपदेशग्रहणम्, तद्विरुद्ध मिथ्यार्थोपदेशग्रहणसामान्यम्, तेन व्याप्तो मिथ्यार्थोपदेशग्रहणविशेष इति।
$ १४२. एवं कारणविरुद्धसहचरं लिंगम्-न सन्त्यस्य प्रशमादीनि, मिथ्याज्ञानात्, इति । प्रशमादीनां हि कारणं सम्यग्दर्शनम्, तद्विरुद्धं मिथ्यादर्शनम्, तत्सहचरं मिथ्याज्ञानम्, इति ।
5 १४३. व्यापकविरुद्धसहचरम् --न सन्त्यस्य मिथ्यादर्शनविशेषाः, सम्यग्ज्ञानात्, इति। मिथ्यादर्शनविशेषाणां हि व्यापकं मिथ्यादर्शनसामान्यम्, तद्विरुद्धं तत्त्वार्थश्रद्धानं सम्यग्दर्शनम्, तत्सहचरं सम्यग्ज्ञानमिति ।
१४४. कारणव्यापकविरुद्धसहचरम्-न सन्त्यस्य प्रशमादीनि, मिथ्याज्ञानात्, इति । प्रशमादीनां हि कारणं सम्यग्दर्शनविशेषाः, तेषां
1. 'वैपर्यासिकविशिष्टं' म स इ। 2. 'सम्यग्ज्ञान-' ब। 3. 'तस्य व्याप्य' अ इ । 4. 'इति' नास्ति अ बइ। 5. 'सद्दर्शनविशे-' अइ। 6. 'सद्दर्शनसामान्य' अ इ । 7. 'हि' नास्ति मु स ब ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212