Book Title: Pramana Pariksha
Author(s): Vidyanandacharya, Darbarilal Kothiya
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 207
________________ प्रमाणसंख्या-परीक्षा : ६५ गुणः, तदा अनादिम्लेच्छादिव्यवहारस्यापि गुणवत्त्वम्, अपौरुषेयत्वाविशेषात् । तदेवम् नादुष्टा चोदना पुंसोऽसत्त्वाद्गुणवतः सदा । तद्व्याख्यातुः प्रवक्तुर्वा म्लेच्छादिव्यवहारवत् ॥ १॥ तया यज्जनितं ज्ञानं तन्नादुष्टनिमित्तजम् । सिद्धं येन प्रमाणं स्यात् परमागमबोधवत् ।। २ ।। वेदस्यापौरुषेयस्यो'च्छिन्नस्य चिरकालतः । सर्वज्ञेन विना कश्चिन्नोद्धर्ताऽतीन्द्रियार्थदृक् ॥ ३ ॥ स्याद्वादिनां तु सर्वज्ञसन्तानः स्यात्प्रकाशकः । परमागमसन्तानस्योच्छिन्नस्य कथंचन ॥ ४ ॥ सर्वभाषा कुभाषाश्च तद्वत्सर्वार्थवेदिभिः । प्रकाश्यन्ते ध्वनिस्तेषां सर्वभाषास्वभावकः ।। ५ ॥ तत्प्रमाणं श्रुतज्ञानं परोक्षं सिद्धमंजसा । अदुष्टकारणोद्भूतेः प्रत्यक्षवदिति स्थितम् ।। ६ ॥ $ १७५. ततः सूक्तं प्रत्यक्षं परोक्षं चेति द्वे एव प्रमाणे, प्रमाणान्तराणां सकलानामप्यत्र संग्रहादिति संख्याविप्रपत्तिनिराकरणमनवद्यम्, लक्षणविप्रतिपत्ति निराकरणवत् । [ विषयविप्रतिपत्ति निराकुर्वन्प्रमाणविषयं प्रदर्शयति ] $ १७६. विषयविप्रतिपत्तिनिराकरण ार्थं पुनरिदमभिधीयते । $ १७७. द्रव्यपर्यायात्मकः प्रमाणविषयः प्रमाणविषयत्वान्यथानुपपत्तेः । प्रत्यक्षविषयेण स्वलक्षणेन, अनुमानादिविषयेण च सामान्येन हेतोय॑भिचार इति न मन्तव्यम्; तथाप्रतीत्यभावात् । न हि प्रत्यक्षतः स्वलक्षणं पर्यायमानं सन्मात्रमिवोपलभामहे । नाप्यनुमानादेः सामान्य द्रव्यमानं विशेषमात्रमिव प्रतिपद्येमहि, सामान्यविशेषात्मनो द्रव्यपर्यायात्मकस्य जात्यन्तरस्योपलब्धेः, प्रवर्त्तमानस्य च तत्प्राप्तः, अन्यथाऽर्थक्रियानुपपत्तेः । न हि स्वलक्षणमर्थक्रियासमर्थम्, क्रमयोगपद्यविरोधात्, सामान्यवत् । न च तत्र क्रमयोगपद्ये सम्भवतः, परिणामाभावात् । क्रमाक्रमयोः परिणामेन व्याप्तत्वात्, सर्वथाऽप्यपरिणामिनः क्षणिकस्य 1. 'वेदस्य पौरुष-' मु। 2. 'प्रकाश्यते' मु। 3. 'स्वरूपविप्रतिपत्ति-' मु । 4. 'सामान्यद्रव्यमानं' मु। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212