Book Title: Pramana Pariksha
Author(s): Vidyanandacharya, Darbarilal Kothiya
Publisher: Veer Seva Mandir Trust
View full book text
________________
५४ : प्रमाण-परीक्षायाम् व्यापकं सम्यग्दर्शनसामान्यम्, तद्विरुद्धं मिथ्यादर्शनम्, तत्सहचरं मिथ्याज्ञानमिति ।
$ १४५. व्यापककारणविरुद्धसहचरम्-न सन्त्यस्य मिथ्यादर्शनविशेषाः, सत्यज्ञानात्, इति । मिथ्यादर्शनविशेषाणां हि व्यापकं मिथ्यादर्शनसामान्यम्, तस्य कारणं दर्शनमोहोदयः, तद्विरुद्ध सम्यग्दर्शनम्, तत्सहचरं सम्यग्ज्ञानमिति ।
६ १४६. तदेतत् सामान्यतो विरोधिलिंगं प्रपंचतो द्वाविंशतिप्रकारमपि भूतमभूतस्य गमकमन्यथानुपपन्नत्वनियमनिश्चयलक्षणत्वात्प्रतिपत्तव्यम् । भूतं भूतस्य तु प्रयोजक कार्यादि षट्प्रकारं पूर्वमुक्तम् ।
$ १४७. तदित्थं विधिमुखेन विधायक प्रतिषेधक च लिंगमभिधाय साम्प्रतं प्रतिषेधमुखेन विधायक प्रतिषेधकं च साधनमभिधीयते ।
$ १४८. तत्राभूतं भूतस्य विधायक यथा-अस्त्यस्य प्राणिनो व्याधिविशेषः, निरामयचेष्टाविशेषानुपलब्धेः, इति । तथा अस्ति सर्वथैकान्तवादिनामज्ञानादिदोषः, यक्तिशास्त्राविरुद्धवचनाभावात्, इति । अस्त्यस्य मुनेराप्तता, विसंवादकत्वाभावात्, इति । अभूदेतस्य तालफलस्य पतनकर्म, वृन्तसंयोगाभावात्, इति बहुधा दृष्टव्यम् ।।
$ १४९. तथैवाभूतमभूतस्य प्रतिषेध्यस्य प्रतिषेधकम् । यथानास्त्यत्र शवशरीरे बुद्धिः, व्यापार-व्याहाराकारविशेषानुपलब्धेः, इति कार्यानुपलब्धिः । न सन्त्यस्य प्रशमादीनि, तत्त्वार्थश्रद्धानानुपलब्धेः, इति कारणानुपलब्धिः । नास्त्यत्र शिशपा वृक्षानुपलब्धेः, इति व्यापकानुपलब्धिः। नास्त्यस्य तत्त्वज्ञानम, सम्यग्दर्शनाभावात्, इति सहचरानुपलब्धिः। न भविष्यति मुहन्तेि शकटोदयः, कृत्तिकोदयानुपलब्धः, इति पूर्वचरानुपलब्धिः । नोद्गाद्भरणिर्मुहूर्तात्प्राक, कृत्तिकोदयानुपलब्धेः, इति उत्तरचरानुपलब्धिः ।
1. 'तत्त्वज्ञानमिति' बइ। 2. 'तदेत्' मु। 3. 'तु' नास्ति मुव । 4.... विधायक प्रतिषेधमुखेन प्रतिषेधक...' मु। 5. 'चेष्टानुपलब्धेः' मु । 6. 'आप्तत्वं' म। 7. 'इति' नास्ति मु इ। 8. 'प्रतिषेधस्य' मु इ।
Jain Education International
For Privale & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212