Book Title: Pramana Pariksha
Author(s): Vidyanandacharya, Darbarilal Kothiya
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 178
________________ ३६ : प्रमाण-परीक्षायां स्वविषय प्रत्यायनसिद्धे'र्भवदुद्भावित दूषणवैयर्थ्यव्यवस्थानात् । योग्यताविशेषः पुनः प्रत्यक्षस्येव स्वविषयज्ञानावरणवीर्यान्तरायक्षयोपशमविशेष एवोहस्यापि प्रतिपद्यते ", सकलबाधकवेधुर्यात् । यथा च प्रत्यक्षस्योत्पत्तौ मनोऽक्षादिसामग्री योग्यतायाः सहकारिणी बहिरंगनिमित्तत्वात्, तथोहस्यापि समुद्भूतौ भूयः प्रत्यक्षानुपलम्भसामग्री बहिरंगनिमित्त 'भूताऽनुमन्यते, तदन्वयव्यतिरेकानुविधायित्वादृहस्येति सर्वं निरवद्यम् । $ ८५ सिद्धे चानुमानप्रामाण्यान्यथानुपपत्त्या तर्कस्य प्रमाणत्वे प्रत्यभिज्ञानं प्रमाणम् तर्कप्रमाणत्वान्यथानुपपत्तेः । न ह्यप्रत्यभिज्ञाते" विषये तर्क : प्रवर्तते, अतिप्रसंगात् । न च गृहीतग्रहणात्प्रत्यभिज्ञानस्याप्रमाणत्वं शंकनीयम्, तद्विषयस्य' स्मर्यमाणदृश्य मानपर्यायव्याप्येकद्रव्यस्य स्मरण प्रत्यक्षागोचरत्वात् अपूर्वार्थग्राहित्वसिद्धेः' । न चेदं प्रत्यक्षेऽन्तर्भवति, प्रत्यक्षस्य वर्तमानविवर्तमात्रविषयत्वात्' । नाप्यनुमाने, लिंगानपेक्षत्वात् । न शाब्दे, शब्दनिरपेक्षत्वात् । नोपमाने, साः श्यग्रहणमन्तरेणापि भावात् । नार्थापत्ती, प्रत्यक्षादिषट्कविज्ञातार्थप्रतिपत्तिमन्तरेणापि प्रादुर्भावात् । नाभावे, निषेध्याधारवस्तुग्रहणेन निषेध्यस्मरणेन च विनैवोत्पादादिति सर्वेषामेक-द्वि- त्रि- चतुः - पंच षट् प्रमाणसंख्यानियमं विघटयति । 13 ८६. एतेन स्मृतिः प्रमाणान्तरमुक्तम्, तस्या 11 अपि प्रत्यक्षादिष्वन्तर्भावयितुमशक्तेः । न चासावप्रमाणमेव, संवादकत्वात्, कथंचिदपूर्वार्थग्राहित्वात्, बाधकवजितत्वाच्च", अनुमानादिवदिति 1 3 । येषां तु स्मरणमप्रमाणं तेषां पूर्वप्रतिपन्नस्य साध्यसाधनसंबंधस्य वाच्यवाचकसंबंधस्य च स्मरणसामर्थ्यादव्यवस्थितेः कुतोऽनुमानं शाब्दं वा प्रमाणं सिद्धयेत् । तदप्रसिद्धौ च न संवादकत्वासंवादकत्वाभ्यां प्रत्यक्षतदाभासव्यवस्थितिरिति 14 सकलप्रमाणविलोपपत्तिः । ततः प्रमाण 1. 'स्वविषये प्रत्या' ० ब स । 2. 'प्रतिपाद्यते ' ब स । 3 'निमित्तभूता-' मु । 4. 'सर्वनिरवद्यसिद्ध े-' मु अ । 5. 'अनुमानप्रमाण - ' मु अ 1 6. 'ज्ञाने' मु । 7. 'तद्विषयस्या' मु । 8. 'ग्राहित्वासिद्ध े : ' मु । 9 'वर्तमानपर्यायविषयत्वात्', मु । 'वर्तमानमात्रविषयत्वात्' अ स । 10. 'सादृश्यमन्तरे -' मु । 11. सर्वासु प्रतिषु 'तस्याश्च' पाठः । 12. 'बाधावजित - ' | 13. 'अनुमानवदिति' मु । 14. 'व्यवस्थिति:' बस । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212