________________
३६ : प्रमाण-परीक्षायां
स्वविषय प्रत्यायनसिद्धे'र्भवदुद्भावित दूषणवैयर्थ्यव्यवस्थानात् । योग्यताविशेषः पुनः प्रत्यक्षस्येव स्वविषयज्ञानावरणवीर्यान्तरायक्षयोपशमविशेष एवोहस्यापि प्रतिपद्यते ", सकलबाधकवेधुर्यात् । यथा च प्रत्यक्षस्योत्पत्तौ मनोऽक्षादिसामग्री योग्यतायाः सहकारिणी बहिरंगनिमित्तत्वात्, तथोहस्यापि समुद्भूतौ भूयः प्रत्यक्षानुपलम्भसामग्री बहिरंगनिमित्त 'भूताऽनुमन्यते, तदन्वयव्यतिरेकानुविधायित्वादृहस्येति सर्वं निरवद्यम् ।
$ ८५ सिद्धे चानुमानप्रामाण्यान्यथानुपपत्त्या तर्कस्य प्रमाणत्वे प्रत्यभिज्ञानं प्रमाणम् तर्कप्रमाणत्वान्यथानुपपत्तेः । न ह्यप्रत्यभिज्ञाते" विषये तर्क : प्रवर्तते, अतिप्रसंगात् । न च गृहीतग्रहणात्प्रत्यभिज्ञानस्याप्रमाणत्वं शंकनीयम्, तद्विषयस्य' स्मर्यमाणदृश्य मानपर्यायव्याप्येकद्रव्यस्य स्मरण प्रत्यक्षागोचरत्वात् अपूर्वार्थग्राहित्वसिद्धेः' । न चेदं प्रत्यक्षेऽन्तर्भवति, प्रत्यक्षस्य वर्तमानविवर्तमात्रविषयत्वात्' । नाप्यनुमाने, लिंगानपेक्षत्वात् । न शाब्दे, शब्दनिरपेक्षत्वात् । नोपमाने, साः श्यग्रहणमन्तरेणापि भावात् । नार्थापत्ती, प्रत्यक्षादिषट्कविज्ञातार्थप्रतिपत्तिमन्तरेणापि प्रादुर्भावात् । नाभावे, निषेध्याधारवस्तुग्रहणेन निषेध्यस्मरणेन च विनैवोत्पादादिति सर्वेषामेक-द्वि- त्रि- चतुः - पंच षट् प्रमाणसंख्यानियमं विघटयति ।
13
८६. एतेन स्मृतिः प्रमाणान्तरमुक्तम्, तस्या 11 अपि प्रत्यक्षादिष्वन्तर्भावयितुमशक्तेः । न चासावप्रमाणमेव, संवादकत्वात्, कथंचिदपूर्वार्थग्राहित्वात्, बाधकवजितत्वाच्च", अनुमानादिवदिति 1 3 । येषां तु स्मरणमप्रमाणं तेषां पूर्वप्रतिपन्नस्य साध्यसाधनसंबंधस्य वाच्यवाचकसंबंधस्य च स्मरणसामर्थ्यादव्यवस्थितेः कुतोऽनुमानं शाब्दं वा प्रमाणं सिद्धयेत् । तदप्रसिद्धौ च न संवादकत्वासंवादकत्वाभ्यां प्रत्यक्षतदाभासव्यवस्थितिरिति 14 सकलप्रमाणविलोपपत्तिः । ततः प्रमाण
1. 'स्वविषये प्रत्या' ० ब स । 2. 'प्रतिपाद्यते ' ब स । 3 'निमित्तभूता-' मु । 4. 'सर्वनिरवद्यसिद्ध े-' मु अ । 5. 'अनुमानप्रमाण - ' मु अ 1 6. 'ज्ञाने' मु । 7. 'तद्विषयस्या' मु । 8. 'ग्राहित्वासिद्ध े : ' मु । 9 'वर्तमानपर्यायविषयत्वात्', मु । 'वर्तमानमात्रविषयत्वात्' अ स । 10. 'सादृश्यमन्तरे -' मु । 11. सर्वासु प्रतिषु 'तस्याश्च' पाठः । 12. 'बाधावजित - ' | 13. 'अनुमानवदिति' मु । 14. 'व्यवस्थिति:' बस ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org