Book Title: Pramana Pariksha
Author(s): Vidyanandacharya, Darbarilal Kothiya
Publisher: Veer Seva Mandir Trust
View full book text
________________
४२ : प्रमाण-परीक्षायां सद्भावात्सांव्यवहारिकमिन्द्रियप्रत्यक्षमनीन्द्रियप्रत्यक्षं चाभिधीयमानं न विरुद्धयते । ततः शेषस्य मतिज्ञानस्य स्मृतिसंज्ञाचिन्ताभिनिबोधलक्षणस्य श्रुतस्य च परोक्षत्वव्यवस्थितेः । तदुक्तमकलंकदेवैः
प्रत्यक्षं विशदं ज्ञानं मुख्य-संव्यवहारतः। परोक्षं शेषविज्ञानं प्रमाणे इति संग्रहः ॥
[लघीय० १-३ ] [स्मृतेः प्रामाण्यसाधनम् ] १०२. तत्र तदित्याकारानुभूतार्थविषया स्मृतिरनिन्द्रियप्रत्यक्षम्, विशदत्वात्, सुखादिसंवेदनवत्, इत्येके; तदसत् तस्यास्तत्र वैशद्यासिद्धः । पुनर्भावयतो वैशद्यप्रतीतेर्भावनाज्ञानत्वात्, तस्य च भ्रान्तत्वात्, स्वप्नज्ञानवत् । पूर्वानुभूतेऽतीतेऽर्थे वैशद्यासम्भवात् स्मृतिः परोक्षमेव, श्रुतानुमितस्मृतिवत् इत्यपरे, तदित्युल्लेखस्य सर्वस्यां स्मृतौ सद्भावात् । सा च प्रमाणम्, अविसंवादकत्वात्, प्रत्यक्षवत् । यत्र तु विसंवादः सा स्मृत्याभासा, प्रत्यक्षाभासवत् ।
[प्रत्यभिज्ञानस्य प्रामाण्यसिद्धिः ] $ १०३. तथा तदेवेदमित्याकारं ज्ञानं संज्ञा प्रत्यभिज्ञा। तादृशमेवेदमित्याकारं वा विज्ञानं संज्ञोच्यते । तस्या एकत्व-सादृश्यविषयत्वाद्वैविध्योपपत्तेः । द्विविधं हि प्रत्यभिज्ञानम्-तदेवेदमित्येकत्वनिबन्धनम्, तादशमेवेदमिति सादश्यनिबन्धनं च।
$ १०४. ननु च तदेवेत्यतीतप्रतिभासस्य स्मरणरूपत्वात्, इदमिति संवेदनस्य प्रत्यक्षरूपत्वात् संवेदनद्वितयमेवैतत्, तादृशमेवेदमिति स्मरणप्रत्यक्षसंवेदनद्वितयवत् । ततो नैकं ज्ञानं प्रत्यभिज्ञाख्यां प्रतिपद्यमानं सम्भवतीति कश्चित्; सोऽपि न संवेदनविशेषविपश्चित् स्मरणप्रत्यक्षजनस्य पूर्वोत्तरविवर्त्तवयैकद्रव्यविषयस्य प्रत्यभिज्ञानस्यैकस्य सुप्रतीतत्वात् । न हि तदिति स्मरणं तथाविधद्रव्यव्यवसायात्मकम्, तस्यातीतविवर्त्तमात्र
१. मीमांसकाः इति मुद्रितप्रतिपादटिप्पणे । २. स्याद्वादिनः इति मुद्रितप्रतिपादटिप्पणे।
1. 'अतीन्द्रियप्रत्यक्षं मु। 2. 'नाभिधीय-' अ। 3. 'प्रमाणमिति' म । 4. 'तस्मात्तत्र' म।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212