SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ ४२ : प्रमाण-परीक्षायां सद्भावात्सांव्यवहारिकमिन्द्रियप्रत्यक्षमनीन्द्रियप्रत्यक्षं चाभिधीयमानं न विरुद्धयते । ततः शेषस्य मतिज्ञानस्य स्मृतिसंज्ञाचिन्ताभिनिबोधलक्षणस्य श्रुतस्य च परोक्षत्वव्यवस्थितेः । तदुक्तमकलंकदेवैः प्रत्यक्षं विशदं ज्ञानं मुख्य-संव्यवहारतः। परोक्षं शेषविज्ञानं प्रमाणे इति संग्रहः ॥ [लघीय० १-३ ] [स्मृतेः प्रामाण्यसाधनम् ] १०२. तत्र तदित्याकारानुभूतार्थविषया स्मृतिरनिन्द्रियप्रत्यक्षम्, विशदत्वात्, सुखादिसंवेदनवत्, इत्येके; तदसत् तस्यास्तत्र वैशद्यासिद्धः । पुनर्भावयतो वैशद्यप्रतीतेर्भावनाज्ञानत्वात्, तस्य च भ्रान्तत्वात्, स्वप्नज्ञानवत् । पूर्वानुभूतेऽतीतेऽर्थे वैशद्यासम्भवात् स्मृतिः परोक्षमेव, श्रुतानुमितस्मृतिवत् इत्यपरे, तदित्युल्लेखस्य सर्वस्यां स्मृतौ सद्भावात् । सा च प्रमाणम्, अविसंवादकत्वात्, प्रत्यक्षवत् । यत्र तु विसंवादः सा स्मृत्याभासा, प्रत्यक्षाभासवत् । [प्रत्यभिज्ञानस्य प्रामाण्यसिद्धिः ] $ १०३. तथा तदेवेदमित्याकारं ज्ञानं संज्ञा प्रत्यभिज्ञा। तादृशमेवेदमित्याकारं वा विज्ञानं संज्ञोच्यते । तस्या एकत्व-सादृश्यविषयत्वाद्वैविध्योपपत्तेः । द्विविधं हि प्रत्यभिज्ञानम्-तदेवेदमित्येकत्वनिबन्धनम्, तादशमेवेदमिति सादश्यनिबन्धनं च। $ १०४. ननु च तदेवेत्यतीतप्रतिभासस्य स्मरणरूपत्वात्, इदमिति संवेदनस्य प्रत्यक्षरूपत्वात् संवेदनद्वितयमेवैतत्, तादृशमेवेदमिति स्मरणप्रत्यक्षसंवेदनद्वितयवत् । ततो नैकं ज्ञानं प्रत्यभिज्ञाख्यां प्रतिपद्यमानं सम्भवतीति कश्चित्; सोऽपि न संवेदनविशेषविपश्चित् स्मरणप्रत्यक्षजनस्य पूर्वोत्तरविवर्त्तवयैकद्रव्यविषयस्य प्रत्यभिज्ञानस्यैकस्य सुप्रतीतत्वात् । न हि तदिति स्मरणं तथाविधद्रव्यव्यवसायात्मकम्, तस्यातीतविवर्त्तमात्र १. मीमांसकाः इति मुद्रितप्रतिपादटिप्पणे । २. स्याद्वादिनः इति मुद्रितप्रतिपादटिप्पणे। 1. 'अतीन्द्रियप्रत्यक्षं मु। 2. 'नाभिधीय-' अ। 3. 'प्रमाणमिति' म । 4. 'तस्मात्तत्र' म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001102
Book TitlePramana Pariksha
Original Sutra AuthorVidyanandacharya
AuthorDarbarilal Kothiya
PublisherVeer Seva Mandir Trust
Publication Year1977
Total Pages212
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Nyay, P000, & P035
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy