________________
प्रमाणसंख्या- परीक्षा : ४३
गोचरत्वात् । नापीदमिति संवेदनम्, तस्य वर्तमानविवर्त्तमात्रविषयत्वात् । ताभ्यामुपजायमानं तु संकलनाज्ञानं । तदनुवादपुरस्सरं द्रव्यं प्रत्यवमृशत् । ततोऽन्यदेव प्रत्यभिज्ञानमेकत्वविषयम् । तदपह्नवे क्वचिदेकान्वयाव्यवस्थानात्' सन्तानैकत्वसिद्धिरपि न स्थात् । न चैतद् गृहीतग्रहणात् अप्रमाणमिति शंकनीयम्, तस्य कथंचिदपूर्वार्थत्वात् । न हि तद्विषयभूतमेकं द्रव्यं स्मृति - प्रत्यक्षग्राह्यम्, येन तत्र प्रवर्तमानं प्रत्यभिज्ञानं गृहीतग्राहि मन्येत । तद्गृहीतातीतवर्तमानविवर्त्ततादात्म्यात् द्रव्यस्य कथञ्चिद् 'वर्थत्वेऽपि प्रत्यभिज्ञानस्य तद्विषयस्य नाप्रमाणत्वम्, लैंगिक देरप्यप्रमाणत्वप्रसंगात् तस्यापि सर्वथैवाऽपूर्वार्थत्वासिद्धेः । संबंधग्राहिविज्ञानविषयात्साध्यादिसामान्यात् कथञ्चिदभिन्नस्यानुमेयस्य देशकालविशिष्टस्य तद्विषयत्वात् कथञ्चिद् पूर्वार्थत्वसिद्धेः ।
$ १०५. बाधकप्रमाणसद्भावान्न प्रमाणं प्रत्यभिज्ञानमिति चायुक्तम्, तद्बाधकस्यासंभवात् । न हि प्रत्यक्षं तद्बाधकम् तस्य तद्विषये प्रवृत्त्यसंभवात् । साधकत्ववद्बाधकत्वविरोधात् । तथा हि-यद्यत्र ? विषये न प्रवर्तते न तत्तस्य साधकं बाधकं वा, यथा रूपज्ञानस्य रसज्ञानम्, न प्रवर्तते च प्रत्यभिज्ञानस्य विषये प्रत्यक्षम् तस्मान्न तत्तबाधकम् । प्रत्यक्षं हि न प्रत्यभिज्ञानविषये पूर्वदृष्ट दृश्यमानपर्यायव्यापिनि द्रव्ये प्रवर्तते तस्य दृश्यमानपर्यायविषयत्वात् इति नासिद्धं साधनम् । एतेनानुमानं प्रत्यभिज्ञानस्य बाधकं प्रत्याख्यातम्, तस्यापि प्रत्यभिज्ञानविषये प्रवृत्त्ययोगात्, क्वचिदनुमेयमात्रे प्रवृत्तिसिद्धेः । तस्य तद्विषयप्रवृत्तौ वा सर्वथा बाधकत्वविरोधात् । ततः प्रत्यभिज्ञानं स्वविषये द्रव्ये प्रमाणम्, सकलबाधकरहितत्वात्', प्रत्यक्षवत् स्मृतिवद्वा ।
$ १०६. एतेन सादृश्यनिबंधनं प्रत्यभिज्ञानं प्रमाणमावेदितं बोद्धव्यम्, तस्यापि स्वविषये बाधकरहितत्वसिद्धेः 10 । यथैव हि प्रत्यक्षं स्वविषये साक्षात्क्रियमाणे स्मरणं च स्मर्यमाणेऽर्थे बाधकविधुरं तथा प्रत्यभिज्ञानमेकत्र द्रव्ये सादृश्ये च स्वविषये न संभवद्बाधकमिति कथम
11
1. 'उपजन्यं तु सकलज्ञानं' मुस । 2. 'अव्यवस्थापनात्' स । 3. 'गृहीतप्रमाणात् ' मु । 4. 'कथंचिदपूर्वार्थत्वे ' सु । 5. 'कथंचिदपूर्वार्थ' मु । 6. ' प्रमाणान्न' सु । 7. 'यथा हि' मु । 'तथा हि यद्यस्य' अब इ । 8. 'तद्बाधकं ' अब इ । 9. 'सकलबाधा - ' मु । 10. 'बोधाकाररहितत्त्व' मु । 11. 'बाधाविधुरं' मु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org