________________
४४ : प्रमाण-परीक्षायां
2
प्रमाणमनुमन्येमहि । यत्पुनः स्वविषये बाध्यमानं तत्प्रत्यभिज्ञानाभासम्, यथा प्रत्यक्षाभासं स्मरणाभासं वा । न च तस्याप्रमाणत्वे सर्वस्याप्य - प्रमाणत्वं युक्तम्, प्रत्यक्षस्याप्यप्रमाणत्वप्रसंगात् । तस्माद्यथा शुक्ले शंखे पीताभासं प्रत्यक्षं तत्रैव शुक्लाभासेन प्रत्यक्षान्तरेण बाध्यमानत्वात् अप्रमाणम्, न पुनः पीते कनकादौ पीताभासं प्रत्यक्षम् । तथा तस्मिन्नेव स्वपुत्रादौ तादृशोऽयमिति प्रत्यभिज्ञानं सादृश्यनिबन्धनं स एवायमित्येकत्वनिबन्धनेन प्रत्यभिज्ञानेन बाध्यमानमप्रमाणं सिद्धम्, न पुनः सादृश्य एव प्रवर्तमानं स्वपुत्रादिना सदृशेऽन्यपुत्रादौ तादशोऽयमिति प्रत्यभिज्ञानम्, तस्याबाध्यत्वेन प्रमाणत्वयोगात् । एवं लूनपुनर्जातनखकेशादौ स एवायं नखकेशादिरित्येकत्वपरामशिप्रत्यभिज्ञानं लूननख केशादिसदृशोऽयं पुनर्जातनखकेशादिरिति सादृश्यनिबन्धनेन प्रत्यभिज्ञानान्तरेण बाध्यमानत्वादप्रमाणमवबुद्धयते, न पुनः सादृश्यप्रत्यवमशिप्रत्यभिज्ञानम्', तस्य तत्राबाध्यमानतया प्रमाणत्वसिद्धेः । तथैव पूर्वानुभूते हि हिरण्यादी प्रदेशविशेषविशिष्टे स्मरणं विपरीतदेशतया तत्स्मरणस्य बाधकमिति न तत्तत्र प्रमाणम् । यथाऽनुभूतप्रदेशे तु तथैव स्मरणं प्रमाणमिति बोद्धव्यम् । तत इदमभिधीयते - यतो यतोऽर्थं परिच्छिद्य प्रवर्तमानोऽर्थक्रियायां न विसंवाद्यते तत्तत्प्रमाणम्, यथा प्रत्यक्षमनुमानं वा । स्मरणात्प्रत्यभिज्ञानाच्चार्थं परिच्छिद्य प्रवर्तमानोऽर्थक्रियायां न विसंवाद्यते च तस्मात्प्रमाणं स्मरणं प्रत्यभिज्ञानं चेति । तथा परोक्षमेतदविशदत्वात्, अनुमानवत् साध्यसाधनसम्बन्धग्राहितवद्वा । विशदस्य त्वात्' ।
भावनाज्ञान
[ तर्कस्य प्रामाण्यप्रतिपादनम् ]
$ १०७. यावान् कश्चिद्धमः स सर्वः पावकजन्मैवापावकजन्मा वा
1. 'सर्वथा प्रमाणत्वं' मु । 2. 'सादृश्य निबंध : ' मु । 3. 'सादृश्येऽन्यपुत्रादो' मु । 4. 'एवं लूनपुनर्जातनखकेशा (दिरिति ) दौ स एवायं नखकेशादिरित्येकत्वपरामर्शप्रत्यभिज्ञानं लूननख केशादिसदृशोऽयं पुनर्जातनखकेशादिरिति सादृश्यनिन्धनेन प्रत्यभिज्ञानान्तरेण बाध्यमानत्वादप्रमाणमवबुद्धयते । न पुनः ) सादृश्यप्रत्यवमशिप्रत्यभिज्ञानम् ।' अत्र कोष्टकान्तर्गतः पाठो मुद्रितप्रतो नोपलभ्यते । स चावश्यक एव । 5. 'तत्र तस्याबाध्य - ' मु । 6. 'अविसंवादित्वात्' मु । 7. 'विशदस्य भावनाज्ञानत्वात्' इत्ययमंशः त्रुटितोऽनावश्यको वा प्रतिभाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org