________________
प्रमाणसंख्या-परीक्षा : ४५ न भवतीति सकलदेशकालव्यप्त्या साध्यसाधनसंबद्धोहापोहलक्षणो हि तर्कः प्रमाणयितव्यः, तस्य कथञ्चिदपूर्वार्थत्वात्, प्रत्यक्षानुपलम्भगृहीतप्रतिनियतदेशकालसाध्यसाधनव्यक्तिमात्रग्राहित्वाभावात् गृहीतग्रहणासम्भवात् , बाधकजितत्वाच्च । न हि तर्कस्य प्रत्यक्षं बाधकम्, तद्विषये तस्याप्रवृत्तेः, अनुमानवत् । प्रवृत्ती वा सर्वथा तद्बाधकत्वविरोधात् क्वचिदेव तद्बाधकोपपत्तेः। यस्य तु तद्वाधकं स तर्काभासो न प्रमाणमितीष्टं शिष्टः, स्मरणप्रत्यभिज्ञानाभासवत्, प्रत्यक्षानुमानाभासवद्वा ।
६१०८. तथा प्रमाणं तर्कः, ततोऽथ परिच्छिद्य प्रवर्तमानस्यार्थक्रियायां विसंवादाभावात्, प्रत्यक्षानुमानवदिति प्रतिपत्तव्यम् । परोक्षं चेदं तर्कज्ञानम्, अविशदत्वात्, अनु मानवत् ।
[ अनुमानस्य प्रामण्यनिरूपणम् ] $१०९. किं पुनरनुमानं नाम । साधनात्साध्यविज्ञानमनुमानम् । तत्र साधनं साध्याविनाभाव नियमनिश्चयेकलक्षणम्, लक्षणान्तरस्य साधनाभासेऽपि भावात् । त्रिलक्षणस्य साधनस्य साधनतानुपपत्तेः, पञ्चादिलक्षणवत् । न हि' सपक्षे सत्त्वं पक्षधर्मत्वं विपक्षे चासत्त्वमात्रं साधनलक्षणम् ‘स श्यामः, तत्पुत्रत्वात्, इतरतत्पुत्रवत्' इत्यत्र साधनाभासेऽपि तत्सद्भावसिद्धेः । सपक्षे हीतरत्र तत्पुत्रे तत्पुत्रत्वस्य साधनस्य श्यामत्वव्याप्तस्य सत्त्वं प्रसिद्धम् । विवादाध्यासिते तत्पुत्रे पक्षोकृते तत्पुत्रत्वस्य सद्भावात् पक्षधर्मत्वम् । विपक्षे चाश्यामें1 क्वचिदन्यपुत्रे तत्पुत्रत्वस्याभावात् विपक्षासत्त्वमात्रं च । न च तावता साध्यसाधनत्वं साधनस्य ।
$ ११०. ननु साकल्येन साध्यनिवृत्तौ साधननिवृत्तेरसम्भवात्, परत्र गौरेऽपि तत्पुत्रे तत्पुत्रत्वस्य भावान्न सम्यक् साधनमेतत्, इति चेत्, तर्हि कास्न्येन साध्यनिवृत्ती साधननिवृत्तिनिश्चय एवैकं साधनलक्षणम् । स
____1. 'व्याप्तसाध्य-' मु। 2. 'गृहीतग्रहणसंभवात्' म। 3. 'अविसंवादकत्वात्' मु। 4. 'भावि' मु। 5. 'स्वलक्षणस्य' मु। 6. 'साधनानुपपत्तेः' मु अ। 7. 'न चा' मु । 8. 'साधनलक्षणं पश्यामः तत्पुत्रत्वा-' मु अ ब । 9. 'साधनामासे तत्स-' मु। 10. 'सिद्ध" अ इ । 11. 'वाऽश्यामे' मु । 12. 'विपक्षेऽसत्त्वमानं' मुब। 13. 'साधनस्य' इति पाठो नास्ति बस इ । 14. निवृत्त निश्चय- मु।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org