________________
४६ : प्रमाण-परीक्षायां एवान्यथानुपपत्तिनियमनिश्नयः स्याद्वादिभिः साधनलक्षणमभिधीयते, तत्सद्धावे पक्षधर्मत्वाद्यभावेऽपि साधनस्य गमकत्व प्रतीते:1। उदेष्यति शकटं कृत्तिकोदयादित्यस्य पक्षधर्मत्वाभावेऽपि प्रयोजकत्वव्यवस्थितेः । न हि शकटे धर्मिण्युदेष्यत्तायां साध्यायां कृत्तिकायां उदयोऽस्ति, तस्य कृत्तिकाधर्मत्वात् । ततो न पक्षधर्मत्वम् । यदि पूनराकाशं कालो वा धर्मी तस्योदेष्यच्छकटवत्वं साध्यं कृत्तिकोदयवत्त्वं साधनं पक्षधर्म एवेति मतम्, तदा धरित्रीमिणि महोदध्याधाराग्निमत्त्वं साध्यं महानसधमवत्वं साधनं पक्षधर्मोऽस्तु । तथा च महानसधूमो महोदधावग्नि गमयेदिति न कश्चिदपक्षधर्मो हेतु: स्यात् । अथेत्थमेतस्य साधनस्य पक्षधर्मत्वसिद्धावपि न साध्यसाधनसामर्थ्य मविनाभाव नियमनिश्चयस्याभावादित्यभिधीयते तहि स एव साधनलक्षणमलणं परीक्षादक्षैरुपलक्ष्यते ।
$ १११. योऽप्याह-शकटोदयो भाविकारणं कृत्तिकोदयस्य, तदन्वयव्यतिरेकानुविधानात् । सति हि स्वकाले भविष्यति शकटोदये कृत्तिकोदयस्य भावादसत्यभावाच्च तदन्वयव्यतिरेकानुविधानं सिद्धं भविष्यच्छकटकृत्तिकोदययोः कार्यकारणभावं साधयति, विनष्टवर्तमानवदेव। यथैवोद्गाद्भरणिः कृत्तिकोदयादित्यत्रातीतो भरण्युदयः कारणं कृत्तिकोदयस्तत्कार्यम्, स्वकाले अतीते सति भरण्युदये कृत्तिकोदयस्य भावादसत्यभावाच्च तदन्वयव्यतिरेकानुविधानात्कार्यकारणभावः तथा भविष्यद्वर्तमानयोरपि प्रकृतसाध्यसाधनयोायस्य समानत्वात् । न चैकस्य कृत्तिकोदयस्य भविष्यदतीतकारणद्वितयं विरुद्धयते, भिन्नदेशयोरिव भिन्नकालयोरपि सहकारित्वाविरोधात् । सहैकस्य कार्यस्य करणं' हि सहकारित्वनिबन्धनं नाभिन्नकालत्वमभिन्नेदेशत्ववत् । न चतीतानागतौ भरण्युदयशकटोदयौ कृत्तिकोदयस्योपादानकारणम्, पूर्वकृत्तिकाक्षणस्यानुदयमापन्नस्य तदुपादानकारणसम्प्रतिपत्तेरिति ।
$११२. सोऽपि न प्रातीतिकवचनः; तथा प्रतीत्यभावात् । कार्यकालमप्राप्नुवतोविनष्टानागतयोः कारणत्वे हि विनष्टतमानागततमयोरपि कारणत्वं कथं विनिवार्यम् । प्रत्यासत्तिविशेषाभावादिति चेत्, तहि स
___ 1. 'सम्यक्त्वप्रतीते:-' बसइ। 2. 'कृत्तिकोदयसाधनं' मु। 3. 'भावि' मु । 4. 'शकटोदये कृत्तिकोदय उपलभ्यते नासतीत्यन्वयव्यतिरेकानुविधान' मुअबइ। 5. 'शकटोदयकृत्तिकोदययोः' ब । 6. 'सहकारित्वविरोधात' में। 7. 'कारणं' मुइ। 8. 'देशवत्' मु अ। 9. 'कृत्तिकालक्षणस्या-' मु। 10. 'आप्राप्तवतो' ब ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org