________________
प्रमाणसंख्या- परीक्षा : ४७
1
एव प्रत्यासत्तिविशेषः कारणत्वाभिमतयोरतीतानागतयोः ' कारणत्वे हेतु - र्वक्तव्यः । स चातीतस्य कार्ये व्यापारस्तावन्न सम्भवति', " सर्वथाऽपि कार्यकाले तदसत्त्वादनागतवत् । तद्भावे भावः प्रत्यासत्तिविशेष' इत्यप्यसारम्, अतीतस्यानागतस्य वाऽभावे एव कार्यस्य भावात् भावे चाभावात् । अन्यथा कार्यकारणयोरेककालतापत्तेः सकलसन्तानानामेकक्षणवर्तित्वप्रसंग: । न चैकक्षणः सन्तानो नाम, तस्यापरामृष्टभेदनानाकार्यकारणक्षणलक्षणत्वात् ।
$ ११३. यदप्यभ्यधायि - कारणस्यातीतस्यानागतस्य च स्वकाले भावे कार्यस्य भावात्, अभावे चाभावात्, तद्भावभावो ऽन्वयव्यतिरेकानुविधानलक्षणः प्रत्यासत्तिविशेषोऽस्त्येव इति ।
1
$ ११४. तदप्यसंगतम् कारणत्वानभिमतातीतानागततमयोरपि तथा तद्भावभावप्रसंगात् । कार्यस्य भिन्नदेशस्य तु कारणत्वे युक्तस्तद्भावभावः, कलशकुम्भकारादिवत् । कुम्भकारादिषु हि स्वदेशे' सत्सु कलशस्य भावोऽसत्सु चाभावस्तेषां तत्र व्यापारात् । कारणत्वानभिमतस्य तु भिन्नदेशस्य न कार्ये तद्भावभावो ऽस्ति तत्र तस्याव्यापारात्, अतीतानागतवत् । सतो हि कस्यचित्क्वचिद्व्यापारः श्रेयान्, न पुनरसतः, शशविषाणादेरिवेति युक्तम् । ततो भिन्नदेशस्यापि कस्यचिदेकत्र " कार्ये व्याप्रियमाणस्य सहकारिकारणत्वं प्रतीतिमनुसरति न पुन भिकालस्य, प्रतीत्यतिलंघनात् । तन्न 14 कृत्तिकोदयशकटोदययोः कार्यकारणभावः समवतिष्ठते, व्याप्यव्यापकभाववत् । सत्यपि तयोः कार्यकारणभावे न हेतोः पक्षधर्मत्वं युज्यते इति पक्षधर्मत्वमन्तरेणापि 15 हेतोर्गमकत्वसिद्धेर्न तल्लक्षणमुत्प्रेक्षते । तथा न सपक्ष एव सत्त्वं निश्चितम् तदभावेऽपि सर्वभावानामनित्यत्वे साध्ये सत्त्वादेः साधनस्य स्वयं साधुत्वसमर्थनात् । विपक्षे पुनरसत्त्वमेव निश्चितं साध्याविनाभाव - " नियम
3
1. 'कारणभिभतयो - ' स 2 'न्न भवति' मु स । 3 'तद्भावे भावप्रत्यासत्ति' मु । 4 'चाभावे एव' मु इ। 5. 'नैकक्षणसंतानो' मु । 6. 'कार्यकारणलक्षणत्वात् ' मु स । 7. 'तदभावाभावो' मु, 'तदभावभावो' स । 8. ' तद्भावप्रसंगात् ' मु । 'भिन्न स्वदेशेषु' मु, 'भिन्नस्वदेशे' इ । 10. 'तद्भावभावो तत्र - ' मु । 11. 'खर' मु । 12. 'देकस्य' मु I 13. 'न भिन्न -' स। 14. 'ततो' मु । 15. 'पक्षधर्ममन्तरे - ' मु अ । 16. 'भावि - ' मु अ ब ।
9.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org