________________
४८ : प्रमाण-परीक्षायां
निश्चयरूपमेवेति तदेव हेतोः प्रधानं लक्षणमस्तु, किमत्र लक्षणान्तरेण । [ बौद्धाभिमतं त्रैरूप्यं हेतुलक्षणं परीक्ष्यते ]
$ ११५. अथ मतमेतत् - पक्षधर्मत्वमसिद्धत्वव्यवच्छदार्थ' साघनस्य निश्चीयते । सपक्ष एव सत्त्वं विरुद्धत्वव्यवच्छेदाय । विपक्षे चासत्त्वमेवानैकान्तिकत्व' व्यवच्छित्तये । तदनिश्चये हेतोरसिद्धत्वादिदोषत्रयपरिहारासंभवात् त्रैरूप्यं लक्षणं सफलमेव । तदुक्तम् —
हेतोस्त्रिष्वपि रूपेषु निर्णयस्तेन वर्णितः । असिद्ध-विपरीतार्थ-व्यभिचारिविपक्षतः 11 [ ] इति ।
$ ११६. तदप्यपरीक्षिताभिधानं सौगतस्य हेतोरन्यथानुपपत्तिनियमनिश्चयादेव दोषत्रयपरिहारसिद्धेः स्वयमसिद्धस्यान्यथानुपपत्तिनियमनिश्चयासम्भवात्, अनैकान्तिकविपरीतार्थवत्, तस्य तथोपपत्तिनियमनिश्चयरूपत्वात् । तस्य चासिद्धे व्यभिचारिणि विरुद्धे च हेतावसम्भवनीयत्वात् । रूपत्रयस्याविना भावनियमप्रपञ्चत्वात् साधनलक्षणत्वे तत एव रूपपञ्चकस्य साधनलक्षणत्वमस्तु | पक्षव्यापकत्वान्वयव्यतिरेकाबाधितविषयत्वासत्प्रतिपक्षत्वरूपाणि हि पञ्चाप्यविनाभावनियमप्रपञ्च एव, बाधितविषयस्य सत्प्रतिपक्षस्य ' चा 'विनाभावनियमानिश्चयात्, पक्षाव्यापकानन्वयाव्यतिरेकवत् । न च पक्षधर्मत्वे सत्येव साधनस्य सिद्धत्वम्, येनासिद्धविवेक 'तस्तत्तस्य लक्षणम्, अपक्षधर्मस्यापि सिद्धत्वसमर्थनात् । नापि सपक्षे सत्त्वे एव विपरीतार्थविवेकः, सर्वानेकान्तात्मकत्वसाधने सत्त्वादेः सपक्षे सत्त्वाभावेऽपि विरुद्धत्वाभावात् परस्य सर्वानित्यत्वसाधनवत् । न च व्यतिरेकमात्रे सत्यपि व्यभिचारिविवेकः १, श्यामत्वे साध्ये तत्पुत्रत्वादेर्व्यभिचारसाधनात् । व्यतिरेकविशेषस्तु तदेवान्यथानुपपन्नत्वमिति न त्रीणि रूपाण्यविनाभावनियमप्रपञ्चः । तेषु सत्सु हेतोरन्यथानुपपत्तिदर्शनात्तेषां तत्प्रपञ्चत्वे कालाकाशादीनामपि तत्प्रपञ्चत्वप्रसक्तिस्तेष्वपि सत्सु तद्दर्शनात् । तेषां सर्वसाधारणत्वान्न हेतुरूपत्वमित्यपि पक्षधर्मत्वादिषु ॥ समानम् तेषामपि साधारणत्वात्,
1. 'प्रधान -' मु अ । 2. 'असिद्धत्वमसिद्धत्वव्यव - ' मु । 3. 'चासत्त्वं अनेकांतित्व - ' 4. ' असंभावनीयत्वात् ' मु अब इ । 5. 'सत्प्रतिपक्षितस्य' मु। 6. 'वा', अब इ । 7. 'न पक्ष - ' 8 'असिद्धत्वविवेकत ' अ । 9. 'व्याभिचारिविवेके' मु । 10. 'व्यभिचारसंभवात्' अइ । 11. 'पक्षधर्मतादि- ' अ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org