________________
प्रमाणसंख्या-परीक्षा : ४९
हेत्वाभासेष्वपि भावात् । ततोऽसाधारणं लक्षणमाचक्षाणैरन्यथानुपपन्नत्वमेव नियतं हेतुलक्षणं कक्षीकर्तव्यम् । तथा चोक्तम्- --
अन्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् ।
नान्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् ।। [ ] इति । [ योगाभिमतं पाञ्चरूप्यं हेतुलक्षणं समालोचयति ] $ ११७. एतेन पंचरूपाणि हेतोरविनाभावनियमप्रपंच एव इत्येतदपास्तम्, सत्यप्य बाधित विषयत्वे सत्प्रतिपक्षत्वे चाविनाभावनियमानवलोकनात्, पक्षव्यापकत्वान्वयव्यतिरेकवत् । स श्यामस्तत्पूत्रत्वादितरतत्पुत्रवदित्यत्र तत्पुत्रत्वस्य हेतोर्विषये श्यामत्वे बाधकस्य प्रत्यक्षादेरभावादबाधितविषयत्वसिद्धावपि अविनाभावनियमासत्त्वात् अश्यामेन तत्पुत्रण व्यभिचारात् । तथा तस्याश्यामत्वसाधनानुमानस्य प्रतिपक्षस्यासत्त्वादसत्प्रतिपक्षत्वे सत्यपि व्यभिचारात्साधनस्य तदभावः प्रतिपत्तव्यः । तदत्रैवं वक्तव्यम्
अन्यथानुपपन्नत्वं रूपैः किं पंचभिः कृतम् ।
नान्यथानुपपन्नत्वं रूपैः किं पंचभिः कृतम् ।। इति । $ ११८. तदेवमन्यथानुपपत्तिनियमनिश्चय एवैकं साधनस्य लक्षणं प्रधानम्, तस्मिन्सति विलक्षणस्य पंचलक्षणस्य च प्रयोगो न निवार्यते एवेति प्रयोगपरिपाटयाः प्रतिपाद्यनुरोधतः परानुग्रहप्रवृत्तैरभ्युपगमात् । तथा चाभ्यधायि कुमारनन्दिभट्टारकैः
अन्यथानुपपत्त्येकलक्षणं लिंगमंग्यते।
प्रयोगपरिपाटी तु प्रतिपाद्यानुरोधतः ।। [ ] इति । $ ११९. तच्च साधनं एकलक्षणं सामान्यादेकविधमपि विशेषतोऽतिसंक्षेपाद्विविधम्-विधिसाधनं' प्रतिषेधसाधनं चेति । तत्र विधिसाधनं संक्षेपात्त्रिविधमभिधीयते-कार्य कारणस्य, कारणं कार्यस्य, अकार्यकारणमकार्यकारणस्येति, प्रकारान्तरस्यात्रैवान्तर्भावात् ।
$ १२०. तत्र कार्य हेतु:-अग्निरत्र धूमात् इति । कार्यकार्यादेरत्र - वान्तर्गतत्वात् ।
1. 'पक्षीकर्त्तव्यं' मु। 2. 'तथोक्तं' मु। 3. 'सत्प्रतिपक्षे' मु। 4. 'अनवलोकात्' मु। 5. 'तथा तस्य श्याम-' मु। 6. 'पंचललक्षणस्य प्रयोगो निवार्यते' मु। 7. 'विधिसाधनं संक्षेपात् त्रिविधं' मु।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org