________________
५० : प्रमाण-परीक्षायाम्
$ १२१. कारणं हेतु:-अस्त्यत्र छाया क्षत्रात् इति । कारणकारणादेरत्रानुप्रवेशान्नार्थान्तरत्वम् । न चानुकलमात्र मन्त्यक्षणप्राप्तं वा कारणं लिंगमच्यते, येन प्रतिबन्ध-वैकल्यसम्भवाद् व्यभिचारि स्यात् । द्वितीयक्षणे कार्यस्य प्रत्यक्षीकरणाद'नुमानानर्थकत्वं वा, कार्याविनाभावनियमतया निश्चितस्यानुमानकालप्राप्तस्य कारणस्य विशिष्टस्य लिंगत्वात् ।
$ १२२. अकार्यकारणं चतुर्विधम्-व्याप्यम्, सहचरम्, पूर्वचरम्, उत्तरचरं चेति । तत्र [१] व्याप्यं लिंगं व्यापकस्य, यथा सर्वमनेकान्तात्मकं सत्त्वादिति । सत्त्वं हि वस्तुत्वम्-"उत्पादव्ययध्रौव्ययुक्तं सत्" [त० सू० ५-३०] इति वचनात् । न च तदेकेनान्तेन सुनयविषयेण व्यभिचारि, तस्य वस्त्वंशत्वात् । [२] सहचरं लिंगं यथा--अस्ति तेजसि स्पर्शसामान्यम्, रूपसामान्यादिति। न हि स्पर्शसामान्यं रूपसामान्यस्य कार्य कारणं वा । नापि रूपसामान्यं स्पर्शसामान्यस्य, तयोः सर्वत्र सर्वदा समकालत्वात् सहचरत्वप्रसिद्धः। एतेन संयोगिन एकार्थसमवायिनश्च साध्यसमकालस्य सहचरत्वं निवेदितमेकसामग्र्यधोनस्यैव प्रतिपत्तव्यम्, समवायिनः कारणत्ववत् । [३] पूर्वचरं लिंगं यथा-उदेष्यति शकटं कृत्तिकोदयात् इति । पूर्वपूर्वचराद्यनेनैव संगृहीतम् । [४] उत्तरचरलिंगं यथा-उद्गाद् भरणिः कृत्तिकोदयात् इति। उत्तरोत्तरचरमेतेनैव संगृह्यते।
$ १२३. तदेतत्साध्यस्य विधौ साधनं षड्विधमुक्तम् ।
$ १२४. प्रतिषेधे तु प्रतिषेध्यस्य विरुद्धकार्यम्, विरुद्धकारणम्, विरुद्धाकार्यकारणं चेति ।
६ १२५. तत्र [१] विरुद्धकार्य लिंग-नास्त्यत्र शीतस्पर्टी धूमात् इति । शीतस्पर्शेन हि विरुद्धो बह्निः, तस्य कार्य धूम इति ।
६ १२६. [२] विरुद्धकारणम्-नास्य पुंसोऽसत्यमस्ति सम्यग्ज्ञानात् इति। विरुद्धं ह्यसत्येन सत्यम्, तस्य कारणं सम्यग्ज्ञानं यथार्थज्ञानं राग
1. 'अनुकूलत्वमात्र-' मु। 2. 'पक्षीकरणा-' मु। 3. कार्याविनाभाविनियम- इ मु। 4. 'व्याप्यलिंग' मु। 5. 'तदेकान्तेन' मु। 6. 'तेजसि स्पर्शसामान्यं न रूपसामान्यस्य' म। 'रूपसामान्यादिति । न ( हि ) स्पर्शसामान्य' इति पाठोऽत्र त्रुटितो वर्तते । 7. 'विरुद्ध कार्य विरुद्धं कारणं विरुद्धाकार्यकारणं चेति' मु।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org