________________
प्रमाणसंख्या-परीक्षा : ५१ द्वेषरहितं तत्कुतश्चित्सूक्ताभिधानादे:1 प्रसिद्धयत् सत्यं साधयति । तच्च सिद्धयदसत्यं प्रतिषेधयतीति ।
$ १२७. [३] विरुद्धाकार्यकारणं तु चतुर्विधम्--विरुद्धव्याप्यम्, विरुद्धसहचरम्, विरुद्धपूर्वचरम्, विरुद्धोत्तरचरं चेति । [१] तत्र विरुद्धब्याप्यम्-नास्त्यत्र शीतस्पर्शः, औष्ण्यात्, इति । औष्ण्यं हि व्याप्यमग्नेः, स च विरुद्धः शीतस्पर्शेन प्रतिषेध्येन, इति। [२] विरुद्धसहचरम् --- नास्त्यस्य मिथ्याज्ञानं सम्यग्दर्शनात्, इति । मिथ्याज्ञानेन हि सम्यग्ज्ञानं विरुद्धम्, तत्सहचरं सम्यग्दर्शनमिति । [ ३ ] विरुद्धपूर्वचरम्-नोदेष्यति मुहूर्तान्ते शकटं रेवत्युदयात् । शकटोदयविरुद्धो ह्यश्विन्युदयः, तत्पूर्वचरो रेवत्युदय इति। [४] विरुद्धोत्तरचरम्-मुहूर्तात्प्राग्नोद्गाद्भरणिः पुष्योदयादिति' । भरण्युदयविरुद्धो हि पुनर्वसूदयः, तदुत्तरचरः पुष्योदय इति।
$ १२८. तान्येतानि साक्षात्प्रतिषेध्यविरुद्धकार्यादीनि लिंगानि विधिद्वारेण प्रतिषेधसाधनानि षडभिहितानि ।
$ १२९. परम्परया तु कारणविरुद्ध कार्यम्, व्यापकविरुद्धकार्यम्, कारणव्यापकविरुद्ध कार्यम्, व्यापककारणविरुद्धकार्यम्, कारणविरुद्धकारणम्, व्यापक विरुद्धकारणम्, कारणव्यापकविरुद्धकारणम्, व्यापककारणविरुद्धकारणं चेति । तथा कारणविरुद्धव्याप्यादीनि कारणविरुद्धसहचरादीनि च यथाप्रतीति वक्तव्यानि ।
१३०. तत्र कारणविरुद्धकार्यम् - नास्त्यस्य हिमजनितरोमहर्षादिविशेषः, धूमात्, इति । प्रतिषेध्यस्य हि रोमहर्षादिविशेषस्य कारणं हिमं तद्विरुद्धोऽग्निः तत्कार्यं धूम इति ।
$ १३१. व्यापकविरुद्धकार्यम्-नास्त्यत्र शीतसामान्यव्याप्तः शीतस्पशविशेषः, धूमात्, इति। शीतस्पर्शविशेषस्य हि निषेध्यस्य व्यापक शीतसामान्यं तद्विरुद्धोऽग्निः तस्य कार्य धूम इति ।
$ १३२. कारणव्यापकविरुद्धकार्यम्-नास्त्यत्र हिमत्वव्याप्तहिम
1. 'सूक्ताभिधान-'म । 2. 'तु' नास्ति मुइ। 3. 'इति' नास्ति म्। 4. 'ह्यश्वन्युद-' मु । 5. 'इति' नास्ति मु। 6. 'प्रांगो...' मु। 7. 'पुष्पोदयादिति' मु। 8. 'चहरादीनि' मु । 9. 'हिमः' ब।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org