________________
५२ : प्रमाण- परीक्षायाम्
विशेषजनितरोमहर्षादिविशेषः, धूमात् इति । रोमहर्षादिविशेषस्य हि कारणं हिमविशेषः, तस्य व्यापकं हिमत्वं तद्विरुद्धोऽग्निः तत्कार्यं धूम इति । $ १३३. व्यापककारणविरुद्धकार्यम् - नास्त्यत्र शीतस्पर्शविशेषः, तद्व्यापकशी तस्पर्श मात्रकारण हिमविरुद्धाग्निकार्यधमात् इति । शीतस्पर्शविशेषस्य हि व्यापकं शीतस्पर्शमात्रं तस्य कारणं हिमं तद्विरुद्धोऽग्निस्तत्कार्यं धूम इति ।
$ १३४. कारणविरुद्ध कारणम् - नास्त्यस्य मिथ्याचरणम्, तत्त्वार्थोपदेशग्रहणात्, [ इति ] । मिथ्याचरणस्य हि कारणं मिथ्याज्ञानं, तद्विरुद्धं तत्त्वज्ञानं तस्य कारणं तत्त्वार्थोपदेशग्रहणम् । तत्त्वार्थोपदेशश्रवणे सत्यपि कस्यचित्तत्त्वज्ञानासम्भवाद् ग्रहणवचनम् । तत्त्वार्थानां श्रद्धानपूर्वकमवधारणं हि ग्रहणमिष्टम्, अन्यथाऽस्य ग्रहणाभासत्वात् । मिथ्याचरणस्य चात्र' नास्तिता साध्यते न पुनरनाचरणस्य', तत्त्वार्थोपदेशग्रहणादुत्पन्नतत्त्वज्ञानस्याप्यसंयतसम्यग्दृष्टेश्चारित्रासम्भवात् अनाचरणस्य प्रसिद्ध : : । न तु मिथ्याचरणमप्यस्य सम्भवति, तत्त्वज्ञानविरोधात् तेन सह तस्यानवस्थानात् इति ।
$ १३५ तथा व्यापक विरुद्धकारणं लिंगम् - नास्त्यस्यात्मनो मिथ्याज्ञानम्, तत्त्वार्थोपदेशग्रहणात् इति । आत्मनो मिथ्याज्ञानविशेषस्य व्यापकं मिथ्याज्ञानमात्रं तद्विरुद्धं सत्यज्ञानं तस्य कारणं तत्त्वार्थोपदेशग्रहणं यथोपवणतमिति ।
$ १३६. कारणव्यापक विरुद्धकारणम् - नास्त्यस्य मिथ्याचरणम्, तत्त्वार्थोपदेशग्रहणात् इति । अत्र मिथ्याचरणस्य कारणं मिथ्याज्ञानविशेषः, तस्य व्यापकं मिथ्याज्ञानमात्रम्, तद्विरुद्धं तत्त्वज्ञानम्, तस्य कारणं तत्त्वार्थोपदेशग्रहणम्, इति प्रत्येयम् ।
3
$ १३७. व्यापककारणविरुद्धकारणं लिंगम्-- नास्त्यस्य मिथ्याचरणविशेषः, तत्त्वार्थोपदेशग्रहणात् इति । मिथ्याचरणविशेषस्य हि व्यापकं मिथ्याचरणसामान्यम्, तस्य कारणं मिथ्याज्ञानम्, तद्विरुद्ध तत्त्वज्ञानम्, तस्य कारणं तत्त्वार्थोपदेशग्रहणमिति' ।
1. 'वात्र' मु । 2. 'अनाचारस्य' अब इ । 3 'अनाचारस्य ' मु । 4. 'आत्मनि' 5. 'सम्यग्ज्ञानं' स । 6. 'यथार्थीपर्वणितमिति' मुइ । 7.
।
'मिति प्रत्येयं ' अ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org