________________
प्रमाणसंख्या-परीक्षा : ४१
ज्ञानं तु निर्वतितानिर्वतितप्रगुणाप्रगुणवाक्कायमनस्कृतार्थस्य परमनसि स्थितस्य स्फुटरमवबोधकत्वात् षट्प्रकारम्, तथाविधमनःपर्ययज्ञानावरणवीर्यान्तरायक्षयोपशमविशेषबलात्प्रादुर्भूनत्वात् ।
६ ९८. सकलमतीन्द्रियप्रत्यक्षं केवलज्ञानं सकलमोहक्षयात्सकलज्ञानावरणवीर्यान्तरायक्षयाच्च समुद्भूतत्वात्, सकलवैशद्यसद्भावात्, सकलविषयत्वाच्च । तद्वान् कश्चित्पुरुषविशेषो भवत्येव सुनिर्णीतासम्भवद्वाधकप्रमाणत्वात् । यथा शास्त्रार्थज्ञानेन' तद्वानुभयवादिप्रसिद्धः। न चात्रासिद्धं साधनम्, सर्वातीन्द्रियप्रत्यक्षवतः पुरुषस्य प्रत्यक्षादिप्रमाणैरबाध्यमानस्य सकलदेशकालपुरुषपरिषदपेक्षयाऽपि सिद्धत्वात्, सुखादिसंवेदनस्यापि तथैव प्रमाणत्वोपपत्तेः,अन्यथा कस्यचिदिष्टसिद्धरसम्भवात। इति संक्षेपतः प्रत्यक्षं विशदं ज्ञानं सांव्यवहारिकं मुख्यं च प्ररूपितम् । विस्तरतस्तु तत्वार्थालंकारे परीक्षितमिह दृष्टव्यम् । . [प्रत्यक्षस्वरूपमभिधाय परोक्षस्वरूपं निरूपयति ] . $ ९९. सम्प्रति परोक्षमुच्यते ।
$ १००. परोक्षमविशदज्ञानात्मकम्, परोक्षत्वात् । ग्रन्नाविशदज्ञानात्मकं तन्न परोक्षम्, यथाऽतीन्द्रियप्रत्यक्षम्. परोक्षं च विवादाध्यासितं ज्ञानम्, तस्मादविशदज्ञानात्मकम् । न चास्य परोक्षत्वमसिद्धम, अक्षेभ्यः परावृत्तत्वात् । 'तथोपात्तानुपात्तपरप्रत्ययापेक्षं परोक्षम्' । त० वा० १-११] इति तत्त्वार्थवात्तिककारैरभिधानात् । उपात्तो हि प्रत्ययः कर्मवशादात्मना करणत्वेन गृहीतः स्पर्शनादिः। ततोऽन्यः पूनर्बहिरंगः सहकारी' प्रत्ययोऽनुपात्तः शब्दलिंगादिः तदपेक्षं ज्ञानं परोक्षमित्यभिधीयते।
१०१. तदपि संक्षेपतो दे॒धा-मतिज्ञानं श्रुतज्ञानं चेति । 'आधे परोक्षम् [त० सू० १-११] इति वचनात् । मतिश्र तावधिमनःपर्ययकेवलानि हि ज्ञानम् । तत्राद्ये मतिश्रु ते सूत्रपाठापेक्षया लक्ष्येते। ते च परापेक्षतया परोक्षे प्रतिपादिते । परानपेक्षाण्यवधिमनःपर्ययकेवलानि यथा प्रत्यक्षाणोति । तत्रावग्रहादिधारणापर्यन्तं मतिज्ञानमपि देशतो वैशद्य
1. सर्वासु प्रतिषु 'सकलज्ञानदर्शनावरणवीर्या-' इति पाठो वर्तते । 2. 'तथा शास्त्रज्ञानेन' मु। 3. 'प्रमाणोपपत्तः' अ । 4. 'संक्षेपतो विशदं' मु। 5. 'अविगदज्ञान' ब स । 6. 'ज्ञान' नास्ति ब । 7. 'बहिरंगसह-' अब। .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org