Book Title: Pramana Pariksha
Author(s): Vidyanandacharya, Darbarilal Kothiya
Publisher: Veer Seva Mandir Trust
View full book text
________________
४० : प्रमाण-परीक्षायां एवेन्द्रिय प्रत्यक्षं देशतो विशदमविसंवादकं प्रतिपत्तव्यम् । स्पर्शनादीन्द्रियनिमित्तस्य बहुबहुविधक्षिप्रानिःसृतानुक्त ध्रुवेषु सेतरेषु' अर्थेषु प्रवर्तमानस्य प्रतीन्द्रियमष्टचत्वारिंशद्भेदस्य व्यंजनावग्रहभेदैरष्टचत्वारिंशता सहितस्य [ तस्येन्द्रियप्रत्यक्षस्य ] संख्याऽष्टाशीत्युत्तरा द्विशती प्रतिपत्तव्या । तथाऽनिन्द्रियप्रत्यक्षं बह्वादिद्वादशप्रकारार्थविषयमवग्रहादिविकल्पमष्टचत्वादिशत्संख्यं प्रतिपत्तव्यम् ।
$ ९६. यत्पुनरतीन्द्रियप्रत्यक्षविकल्पमवधिज्ञानं तत् षड्विधम्, अनुगाम्यननुगामिवर्धमानहीयमानावस्थितानवस्थितविकल्पात् । सप्रतिपाताप्रतिपातयोरत्रैवान्तर्भावात् । संक्षेपतस्तु त्रिविधम्, देशावधि-परमावधिसर्वावधिभेदात् । तत्र देशावधिज्ञानं षड्विकल्पमपि सम्भवति । परमावधिज्ञानं तु संयमविशेषैकार्थसमवायि भवान्तरापेक्षयाऽननुगामि सप्रतिपातं च प्रत्येयम् । तद्भवापेक्षया च तदनुगाम्येव नाननुगामि । वर्षमानमेव न हीयमानम् । अवस्थितमेव नानवस्थितम् । अप्रतिपातमेव न सप्रतिपातम्, तथाविधविशुद्धिनिबन्धनत्वात्। एतेन सर्वावधिज्ञानं व्याख्यातम् । केवलं तद्वर्धमानमपि न भवति, परमप्रकर्षप्राप्तत्वात्, सकलावधिज्ञानावरणवीर्यान्तरायक्षयोपशमवशात्प्रसूतत्वात् । अतिसंक्षेपतस्तु द्विविधमवधिज्ञानं भवप्रत्ययं गुणप्रत्ययं चेदि । तत्र भवप्रत्ययं देवनारकाणाम्', बहिरंगदेवभव-नारकभवनिमित्तत्वात् । तद्भावे भावात्, तदभावे चाभावात् । तत्तु10 देशावधिज्ञानमेव । गुणप्रत्ययं तु सम्यग्दर्शनगुणनिमित्तमसंयतसम्यग्दृष्टेः। संयमासंयमगुणहेतुकं संयतासंयतस्य। संयमगुणनिबन्धनं संयतस्य । सत्यन्तरंगे हेतौ बहिरंगस्य गुणस्य [सम्यग्दर्शनादेः ] प्रत्ययस्य'। भावे भावात् । तदभावे चाभावात् ।
६२७. तथा मनःपर्ययज्ञानं विकलमतीन्द्रियप्रत्यक्षं द्वेधा12-ऋजु-विपुलमतिविकल्पात् । तत्रर्जुमतिमनःपर्ययज्ञानं निर्वर्तितप्रगुणवाक्कायमनस्कृतार्थस्य परमनोगतस्य परिच्छेदकत्वात्त्रिविधम् । विपुलमतिमनःपर्यय
1. 'तदितरेषु' मुस। 2. 'वर्तमानस्य' मुस। 3. शीत्युत्तरद्विशती' मु। 4. 'प्रतिपात” मु । 5. 'न प्रतिपातं' मु। 6. 'तथाविशुद्धि-' स । 7, 'देवनारकाणां' पाठो त्रुटितो वर्तते मु। 8. 'वहिरंगदेवभवनारकभवप्रत्ययनिमि-' म। 9. 'तदभावेऽभावात्' मु। 10. 'तत् देशावधि-' स । 11. 'गुणाप्रत्ययस्य' म ब इ। 12. 'द्विधा' ब । 13. 'ऋजुमतिविकल्पात' मु।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212