Book Title: Pramana Pariksha
Author(s): Vidyanandacharya, Darbarilal Kothiya
Publisher: Veer Seva Mandir Trust
View full book text
________________
प्रमाणसंख्या-परीक्षा : ३५ दृष्टः, यथा प्रमेयोऽर्थः । प्रमाणविषयपरिशोधकश्च तर्कः, तस्मात्प्रमाणमिति केवलव्यतिरेकिणाऽनुमानेनान्यथानुपपत्तिनियमनिश्चयलक्षणेन तर्कस्य प्रमाणत्वसिद्धेः न वैशेषिकाणां प्रमाणद्वयसंख्यानियमः सिद्धयेत् ।
६८२. एतेनैव त्रिचतुःपंचषट्प्रमाणवादिनां प्रमाणसंख्यानियमः प्रतिध्वस्तः, सांख्यानां प्रत्यक्षानुमानाभ्यामिवागमादपि साध्यसाधनसंबंधासिद्धेः तर्कस्य तत्सिद्धिनिबन्धनस्य प्रमाणान्तरत्वोपपत्तेः। नैयायिकानां च प्रत्यक्षानुमानागमैरिवोपमानेनापि लिंगलिंगिसंबंधग्रहणासंभवात । प्राभाकराणां च प्रत्यक्षानुमानोपमानागमैरिवार्थापत्त्यापि हेतुहेतुमत्संबंधसिद्धरसंभवात्। भट्टमतानुसारिणामपि प्रत्यक्षानुमानोपमानागमार्थापत्तिभिरिवाभावप्रमाणेनापि व्याप्तिनिश्चयानुपपत्तेस्तन्निश्चयनिबंधनस्योहज्ञानस्य प्रमाणान्तरस्य सिद्धिरवश्यम्भाविनी दुःशक्या निराकर्तुम् ।
८३. ननूहः स्वविषयेण संबद्धोऽसंबद्धो वा । न तावदसंबद्धस्तं प्रत्याययितुमीशः, अतिप्रसंगात् । संबद्धश्चेत्, कुतस्तत्संबंधप्रतिपत्तिः । न तावत्प्रत्यक्षात, तस्य तदविषयत्वात् । नाप्यनुमानात्, अनवस्थानुषंगात् । यदि पुनरूहान्तरात्तत्संबंधसिद्धिः, तदोहान्तरस्यापि स्वविषयसंबंधसिद्धिपूर्वकत्वात्, तस्याश्चापरोहनिबन्धनत्वात् सैवानवस्था । प्रमाणान्तरात्तत्सिद्धौ च स एव पर्यनुयोगः परापरप्रमाणान्तरपरिकल्पनानुषंगात् क्वेयं प्रमाणसंख्या व्यवतिष्ठतेति केचित्; तेषामपि प्रत्यक्षं स्वविषयं प्रतिबोधयत् तत्संबद्धमेव प्रतिबोधयेन्नासंबद्धमतिप्रसंगात् । तत्संबन्धश्च नानुमानादेः सिद्धयति, तस्य तदविषयत्वात् । प्रत्यक्षान्तरात्तत्सिद्धौ तत्रापि प्रकृतपर्यनुयोगानिवृत्तेः कथमनवस्था न स्यात्, यतः प्रत्यक्ष प्रमाणमभ्युपगमनीयमिति प्रतिपद्यामहे ।
६८४. स्यान्मतिरेषा- न प्रत्यक्षं स्वविषयसंबन्धावबोधनिबन्धनं प्रामाण्यमात्मसात्कुरुते, तस्य स्वविषये स्वयोग्यताबलादेव प्रमाणत्वव्यवस्थितेः, अन्यथा क्वचिदपूर्थिग्राहिणः प्रत्यक्षस्याप्रमाणत्वानुषंगात्, इति; सापि न साधीयसी; तथोहस्यापि स्वयोग्यताविशेषसामर्थ्यादेव
1. 'एतेन द्वित्रि०' मु। 2. लिंगलिंगिग्रहण-' मु। 3. 'अभावात्' अ इ । 4. 'स्वविषये' मु इ। 5. 'कुतस्तत्प्रतिपत्तिः' म । 6. 'बोधयत्' अ इ । 7. 'तत्सम्बद्धमेव प्रतिबोधयेन्नासम्बद्धमतिप्रसंगात्' इति पाठो नास्ति मु। 8. 'न' पाठो नास्ति मुइ। 9. 'तस्य विषये' ब ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212