Book Title: Pramana Pariksha
Author(s): Vidyanandacharya, Darbarilal Kothiya
Publisher: Veer Seva Mandir Trust
View full book text
________________
प्रमाणसंख्या-परीक्षा : ३७ व्यवस्थामभ्यनुजानता स्मृतिरपि प्रमाणयितव्या इति न परेषां संख्यानियमः सिद्धयेत् । स्याद्वादिना तु संक्षेपात्प्रत्यक्ष-परोक्षविकल्पात्प्रमाणट्टयं सिद्धयत्येव, तत्र सकलप्रमाणभेदानां संग्रहादिति सूक्तम् ।
[सम्प्रति प्रत्यक्षस्वरूपं निर्वक्ति ] $ ८७. किं पुनः प्रत्यक्षम् । उच्यते--विशदज्ञानात्मकं प्रत्यक्षम्, प्रत्यक्षत्वात् । यत्तु न विशदज्ञानात्मकं तन्न प्रत्यक्षम्, यथाऽनुमानादिज्ञानम्, प्रत्यक्षं च विवादाध्यासितम्, तस्माद्विशदज्ञानात्मकम् । न तावदत्राप्रसिद्धो धर्मी, प्रत्यक्षे धर्मिणि सकल प्रत्यक्षवादिनामविप्रतिपत्तेः । शून्य-संवेदनाद्वैतादिवादिनामपि स्वरूपप्रतिभासनस्य प्रत्यक्षस्याभीष्टः । प्रत्यक्षत्वस्य हेतोरसिद्धताऽपि अनेन समुत्सारिता, प्रत्यक्षमिच्छद्भिः प्रत्यक्षत्वस्य तद्धर्मस्य स्वयमिष्टत्वात् । .
$ ८८. प्रतिज्ञार्थंकदेशासिद्धत्वं साधनस्य स्यात्, इति चेत्; का पुनः प्रतिज्ञा, तदेकदेशो वा, यस्यासिद्धत्वं शक्येत । धर्मर्मिसमुदायः प्रतिज्ञा, तदेकदेशो धर्मी हेतुः, यथा नश्वरः शब्दः शब्दत्वात् इति । तथा साध्यधर्मः प्रतिज्ञैकदेशः, यथा नश्वरः शब्दो नश्वरत्वादिति । सोऽयं द्विविधोऽपि प्रतिज्ञार्थंकदेशासिद्धो हेतुः स्यात्, इति चेत्, न; धर्मिणो हेतुत्वे कस्यचिदसिद्धताऽनुपपत्तेः । यथैव हि पक्षप्रयोगकाले' वादिप्रतिवादिप्रसिद्धो धर्मी तथा तस्य हेतुत्ववचनेऽपि नासिद्धिः । साध्यधर्मस्तु हेतुत्वेनोपादीयमानो न प्रतिज्ञार्थंकदेशत्वेनासिद्धः, धमिणोऽप्यसिद्धिप्रसंगात् । किं तर्हि । स्वरूपेणैवासिद्ध इति · न प्रतिज्ञार्थंकदेशासिद्धो नाम हेत्वाभासः सम्भवतीति कथं प्रकृतहेतो:10 प्रतिज्ञार्थंकदेशासिद्धत्वं समुद्भावयन् भावितानुमानस्वभावः ।
$ ८९. धर्मिणो हेतुत्वेऽनन्वयत्व प्रसंग इति चेत्, न; विशेष धर्मिणं कृत्वा सामन्यं हेतुं ब्रुवतां दोषासम्भवात् । प्रत्यक्षं हि विशेरूपं धर्मी,
1. 'अनुमानादिविज्ञानं' ब । 2. 'प्रत्यक्षर्मिणि केवलप्रत्यक्षवादि-' मु। 3. 'द्वैतवादिना-' म अ इ। 4. 'असिद्धता' स इ। 5. 'नश्वरत्वात्' मु । 6. 'द्विविधो' मु अब । 7. 'प्रत्यक्षप्रयोग' म । 8. 'प्रतिज्ञातार्थंक-' स । 9. 'स्वरूपेण वासिद्ध' म । 10. 'प्रकृतहेतो' मुअ। 11. 'अनन्वयप्रसंग' मुस।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212