Book Title: Pramana Pariksha
Author(s): Vidyanandacharya, Darbarilal Kothiya
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 159
________________ प्रमाणलक्षण-परीक्षा : १७ किंचिद्ज्ञानं सत्तामात्रं व्यभिचरति, तस्यानुत्पत्तिप्रसक्तेः । ततोऽसत्यस्वप्नस्याप्यर्थसामान्यव्यवसायात्मकत्वसिद्धेने किचिद् ज्ञानमा व्यवसायात्मकम् । विशेषं तु यत एव व्यभिचरति तत एवासत्यः । कथमन्यथा सत्येतरव्यवस्थितिः स्यात्, तस्याः स्वार्थविशेषप्राप्त्यप्राप्तिनिमित्तत्वात् । इत्यलं प्रसंगेन, स्वव्यवसायात्मकत्ववत् सम्यग्ज्ञानस्यार्थव्यवसायात्मकत्वप्रसिद्धः । [अस्वसंवेदिज्ञानवादिनां नैयायिकानां मतनिरासः ] ३७. अत्रापरः प्राह-सम्यग्ज्ञानमर्थव्यवसायात्मकमेव न स्वव्यवसायात्मकम्, स्वात्मनि क्रियाविरोधात्, एकस्य ज्ञानस्यानेकाकारानुपपत्तेः । न हि ज्ञानमेकमाकारं कर्मतामापन्नं स्वं व्यवस्पति करणात्मनाकारेणेति वक्तुं युक्तम्, ताभ्यां कर्मकरणाकाराभ्यां ज्ञानस्याभेदे भेदप्रसंगात् । न हि भिन्नाभ्यां ताभ्यामभिन्नमेकं नाम, अतिप्रसंगात् । तयोर्वाकारयोर्ज्ञानादभेदे भेदविरोधात् । न ह्यभिन्नादभिन्नयोर्भेदः संभाव्यते, अतिप्रसंगादेव । ताभ्यां विज्ञानस्य भेदोपगमे न विज्ञानमात्मनात्मानं व्यवस्यति, परात्मना परात्मन एव व्यवसायात् । तौ चाकारौ यदि ज्ञानस्यात्मानौ तदा ज्ञानं व्यवस्यति वा न वा। प्रथमपक्षे किमेकेनाकारान्तरेण द्वाभ्यां वाकारान्तराभ्यां तत्ती व्यवस्येत् । न तावदेकेनाकारान्तरेण, विरोधात् । द्वाभ्यां व्यवस्यति इति चेत्, तयोरप्याकारान्तरयोआनादभेदो भेदो वा स्यात् इत्यनिवृत्तः पर्यनुयोगोऽनवस्था च महीयसी । कथंचिद्भेदः कथंचिदभेद इत्युभयपक्षालंबनमपि अनेनैवापास्तम्, पक्षद्वयनिक्षिप्तदोषानुषंगात् पक्षान्तरासंभवाच्चेति । ३८. सोऽपि न न्यायकुशलः; प्रतीत्यतिलंघनात् । लोके हि ज्ञानस्य स्वव्यवसायिन एवार्थव्यसायित्वेन प्रतीतिः सिद्धान चेयं मिथ्या, बाधकाभावात् । 'स्वात्मनि क्रियाविरोधो बाधकः' इति चेत्, का पुनः क्रिया। किमुत्पत्ति प्तिर्वा । यद्युत्पत्तिः, सा स्वात्मनि विरुद्धयताम् । न हि वयमभ्यनुजानीमहे ज्ञानमात्मानमुत्पादयतीति । 'नैकं स्वस्मात्प्रजायते' [ आ० मी० का० २४ ] इति समन्तभद्रस्वामिभिरभिधानात् । S३९. अथ ज्ञप्तिः क्रिया, सा स्वात्मनि नविरुद्धा, तदात्मनैव ज्ञानस्य स्वकारणकलापादुत्पादात् । प्रकाशात्मनेव प्रकाशस्य प्रदीपादेः। न हि . 1. 'आपन्नं व्यवस्थति' मु । 2. 'कर्मात्मना' मु । 3. 'भेदप्रसंगात्' म । 4. 'अतिप्रसंगात् । ‘एवं' मु व। 5. 'व्यवस्येत' मुव । 6. 'पक्षावलम्बन' अब स। 7. 'न' नास्ति ' मु। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212