Book Title: Pramana Pariksha
Author(s): Vidyanandacharya, Darbarilal Kothiya
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 164
________________ २२ : प्रमाण-परीक्षायां मीमांसकानाम; क्वचिदर्थे। परिच्छित्तेः प्रत्यक्षत्वाप्रत्यक्षत्वविकल्पानतिक्रमात् । सा हि न तावत्प्रत्यक्षा, ज्ञानधर्मत्वात् कर्मत्वेनाप्रतीतेश्च , करणज्ञानवत् । तस्याः कर्मत्वेनाप्रतीतावपि क्रियात्वेन प्रतीतेः प्रत्यक्षत्वे करणज्ञानस्य कर्मत्वेनाप्रतीयमानस्यापि करणत्वेन प्रतीयमानत्वात् प्रत्यक्षत्वमस्तु । करणत्वेन प्रतीयमानं करणज्ञानं करणमेव स्यात्, न प्रत्यक्षं कर्मलक्षणमिति चेत्, तर्हि पदार्थपरिच्छित्तिरपि क्रियात्वेन प्रतिभासमाना क्रियैव स्यात् न प्रत्यक्षा कर्मत्वाभावादिति प्रतिपत्तव्यम् । यदि पुनरर्थधर्मत्वादर्थपरिच्छित्तेः प्रत्यक्षतेष्यते, तदा साऽर्थप्राकटयमुच्यते । न चैतदर्थग्रहणविज्ञानस्य प्राकट्याभावे घटामटति, अतिप्रसंगात् । न ह्यप्रकटेऽर्थज्ञाने सन्तानान्तरवर्तिनि कस्यचिदर्थस्य प्राकटयं घटते, प्रमातुरात्मनः स्वयं प्रकाशमानस्य प्रत्यक्षस्यार्थपरिच्छेदकस्य प्राकटयादथै प्राकटयं परिच्छित्तिलक्षणं संलक्ष्यते । परिच्छित्तेः परिच्छेदकत्वरूपायाः कर्तृस्थायाः क्रियायाः कर्तृधर्मत्वादुपचारादर्थधर्मत्ववचनात् परिच्छिद्यमानतारूपायाः परिच्छित्तेः कर्मस्थायाः क्रियाया एव परमार्थतोऽर्थधर्मत्वसिद्धेः । करणज्ञानधर्मता तु परिच्छित्ते'र्नेष्यते एव । 'चक्षुषा रूपं पश्यति देवदत्तः' इत्यत्र चक्षुषः प्राकटयाभावेऽपि परोक्षस्यातीन्द्रियस्य रूपे प्राकट्यवत् ज्ञानस्य परोक्षस्य करणस्य प्राकटयाभावेऽपि अर्थ प्राकटयं सुघटमेव लोकेऽतीन्द्रिस्यापि करणत्वसिद्धेरिति केचित् अभ्यमंसत मीमासकाः; तेऽप्यन्धसर्पबिल प्रवेशन्यायेन स्याद्वादिमतमेवानुप्रविशन्ति; स्याद्वादिभिरपि स्वार्थपरिच्छेदकस्य प्रत्यक्षस्यात्मनः कर्तृसाधनज्ञानशब्देनाभिधानात् । स्वार्थज्ञानपरिणतस्यात्मन एव स्वतन्त्रस्य ज्ञानत्वोपपत्तेः । यत्तु परोक्षमतीन्द्रियतया करणज्ञानं परैरुक्तं तदपि स्याद्वादिभिर्भावेन्द्रियतया करणमुपयोगलक्षणं प्रोच्यते । 'लब्ध्युपयोगी भावेन्द्रियम्' [ त० सू० २।१८ ] इति वचनात् । तत्रार्थग्रहणशक्तिर्लब्धिः, अर्थग्रहणव्यापार उपयोग इति व्याख्यानात् । केवलं तस्य कथंचिदात्मनोऽनर्थान्तरभावात्तदात्मतया प्रत्यक्षत्वोपपत्तेः अप्रत्यक्षतैकान्तो निरस्यत इति प्रातीतिक परीक्षकैरनुमन्तव्यम् । ६४७. ये तु मन्यन्ते-नात्मा प्रत्यक्षः कर्मत्वेनाप्रतीयमानत्वात्, करण 1. 'क्वचिदर्थपरि' मु। 2. 'धर्मकत्वात्' मु। 3. 'अप्रतीतिश्च' मु । 4. 'क्रियेव' मु। 5. 'संतानांतरवर्तिनिकरस्य चिदर्थस्य' मु। 6. 'परिच्छेदकस्वरूपायाः' मु। 7. करणज्ञानधर्मतानुच्छित्ते-' मु। 8. 'प्राकटयाभावेऽपि अर्थप्राकटयं" मु । 9. 'केचित् समभ्यमंसत' मु। 10. 'विल' मु । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212