________________
२२ : प्रमाण-परीक्षायां मीमांसकानाम; क्वचिदर्थे। परिच्छित्तेः प्रत्यक्षत्वाप्रत्यक्षत्वविकल्पानतिक्रमात् । सा हि न तावत्प्रत्यक्षा, ज्ञानधर्मत्वात् कर्मत्वेनाप्रतीतेश्च , करणज्ञानवत् । तस्याः कर्मत्वेनाप्रतीतावपि क्रियात्वेन प्रतीतेः प्रत्यक्षत्वे करणज्ञानस्य कर्मत्वेनाप्रतीयमानस्यापि करणत्वेन प्रतीयमानत्वात् प्रत्यक्षत्वमस्तु । करणत्वेन प्रतीयमानं करणज्ञानं करणमेव स्यात्, न प्रत्यक्षं कर्मलक्षणमिति चेत्, तर्हि पदार्थपरिच्छित्तिरपि क्रियात्वेन प्रतिभासमाना क्रियैव स्यात् न प्रत्यक्षा कर्मत्वाभावादिति प्रतिपत्तव्यम् । यदि पुनरर्थधर्मत्वादर्थपरिच्छित्तेः प्रत्यक्षतेष्यते, तदा साऽर्थप्राकटयमुच्यते । न चैतदर्थग्रहणविज्ञानस्य प्राकट्याभावे घटामटति, अतिप्रसंगात् । न ह्यप्रकटेऽर्थज्ञाने सन्तानान्तरवर्तिनि कस्यचिदर्थस्य प्राकटयं घटते, प्रमातुरात्मनः स्वयं प्रकाशमानस्य प्रत्यक्षस्यार्थपरिच्छेदकस्य प्राकटयादथै प्राकटयं परिच्छित्तिलक्षणं संलक्ष्यते । परिच्छित्तेः परिच्छेदकत्वरूपायाः कर्तृस्थायाः क्रियायाः कर्तृधर्मत्वादुपचारादर्थधर्मत्ववचनात् परिच्छिद्यमानतारूपायाः परिच्छित्तेः कर्मस्थायाः क्रियाया एव परमार्थतोऽर्थधर्मत्वसिद्धेः । करणज्ञानधर्मता तु परिच्छित्ते'र्नेष्यते एव । 'चक्षुषा रूपं पश्यति देवदत्तः' इत्यत्र चक्षुषः प्राकटयाभावेऽपि परोक्षस्यातीन्द्रियस्य रूपे प्राकट्यवत् ज्ञानस्य परोक्षस्य करणस्य प्राकटयाभावेऽपि अर्थ प्राकटयं सुघटमेव लोकेऽतीन्द्रिस्यापि करणत्वसिद्धेरिति केचित् अभ्यमंसत मीमासकाः; तेऽप्यन्धसर्पबिल प्रवेशन्यायेन स्याद्वादिमतमेवानुप्रविशन्ति; स्याद्वादिभिरपि स्वार्थपरिच्छेदकस्य प्रत्यक्षस्यात्मनः कर्तृसाधनज्ञानशब्देनाभिधानात् । स्वार्थज्ञानपरिणतस्यात्मन एव स्वतन्त्रस्य ज्ञानत्वोपपत्तेः । यत्तु परोक्षमतीन्द्रियतया करणज्ञानं परैरुक्तं तदपि स्याद्वादिभिर्भावेन्द्रियतया करणमुपयोगलक्षणं प्रोच्यते । 'लब्ध्युपयोगी भावेन्द्रियम्' [ त० सू० २।१८ ] इति वचनात् । तत्रार्थग्रहणशक्तिर्लब्धिः, अर्थग्रहणव्यापार उपयोग इति व्याख्यानात् । केवलं तस्य कथंचिदात्मनोऽनर्थान्तरभावात्तदात्मतया प्रत्यक्षत्वोपपत्तेः अप्रत्यक्षतैकान्तो निरस्यत इति प्रातीतिक परीक्षकैरनुमन्तव्यम् । ६४७. ये तु मन्यन्ते-नात्मा प्रत्यक्षः कर्मत्वेनाप्रतीयमानत्वात्, करण
1. 'क्वचिदर्थपरि' मु। 2. 'धर्मकत्वात्' मु। 3. 'अप्रतीतिश्च' मु । 4. 'क्रियेव' मु। 5. 'संतानांतरवर्तिनिकरस्य चिदर्थस्य' मु। 6. 'परिच्छेदकस्वरूपायाः' मु। 7. करणज्ञानधर्मतानुच्छित्ते-' मु। 8. 'प्राकटयाभावेऽपि अर्थप्राकटयं" मु । 9. 'केचित् समभ्यमंसत' मु। 10. 'विल' मु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org