________________
प्रमाणलक्षण-परीक्षा : २१
3
घटयन् प्रेक्षावत्तां लभते इति; साऽपि न परीक्षासहा; ज्ञानान्तरस्यापि परज्ञानेन वेद्यत्वेऽनवस्थानुषंगात् । तस्य ज्ञानान्तरेणा वेद्यत्वे " तेनैव हेतोर्व्यभिचारः । न च तदप्रमेयमेव सर्वस्येति वक्तुं शक्यम्, प्रतिपत्तुः प्रमाणबलात्तद्व्यवस्थापनविरोधात् । सर्वज्ञज्ञानेनापि तस्याप्रमेयत्वे सर्वज्ञस्य सर्वज्ञताव्याघातात् । ततोऽस्मदादिज्ञानापेक्षयापि न ज्ञानं ज्ञानान्तरप्रत्यक्षं प्रमेयत्वाद्धेतोः साधयितुं शक्यम्, ज्ञानस्य स्वार्थव्यवसायात्मनः प्रत्यक्षसिद्धत्वात् प्रत्यक्ष बाधित पक्षतया हेतोः कालात्ययापदिष्टत्वप्रसंगाच्च । एतेनार्थज्ञाने' ज्ञानान्तरवेद्ये साध्ये कालत्रय त्रिलोकवति पुरुषपरिषत्संप्रयुक्तसकलहेतुनिकरस्य कालात्ययापदिष्टत्वं व्याख्यातम् । तदनेन यदुक्तमेकात्मसमवेतानन्तरविज्ञानग्राह्यमर्थज्ञानमिति तत्समुत्सारितम् ।
[ परोक्षज्ञानवादिनां मीमांसकानां मतनिरासः ]
$ ४५. योऽप्याह---न स्वव्यवसायात्मकं ज्ञानम्, परोक्षत्वात्, अर्थस्यैव प्रत्यक्षत्वात् । अप्रत्यक्षा नो बुद्धिः प्रत्यक्षोऽर्थः । स हि बहिर्देश संबद्धः प्रत्यक्षमनुभूयते । 'ज्ञाते त्वर्थेऽनुमानादवगच्छति बुद्धिम् " इति [ ] शावरभाष्ये श्रवणात् । तथा ज्ञानस्यार्थवत् प्रत्यक्षत्वे कर्मत्वप्रसंगात् ज्ञानान्तरस्य करणस्यावश्यं परिकल्पनीयत्वात् । तस्य चाप्रत्यक्षत्वे प्रथमे कोsपरितोषः । प्रत्यक्षत्वे तस्यापि पूर्ववत्कर्मतापत्तेः करणात्मनोऽन्यविज्ञानस्य परिकल्पनायामनवस्थाया दुर्निवारत्वात् । तथैकस्य ज्ञानस्य कर्मकरणद्वयाकारप्रतीतिविरोधाच्च न ज्ञानं प्रत्यक्षं परीक्षकैरनुमन्तव्य - मिति सोऽपि न यर्थार्थमीमांसकतामनुसतुमुत्सहते; ज्ञानस्याप्रत्यक्षत्वे सर्वथार्थस्य' प्रत्यक्षत्वविरोधात् । सन्तानान्तरज्ञानेनापि सर्वस्यार्थ प्रत्यक्षत्वप्रसंगात् । तथा च न कस्यचित्कदाचिदर्थोऽप्रत्यक्ष : 1 स्यात् ।
.11
$ ४६. स्यादाकूतं भवताम् - यस्यात्मनोऽर्थे परिच्छित्तिः प्रादुर्भवति तस्य ज्ञानेन सोऽर्थः प्रत्यक्षः प्रतीयते " न सर्वस्य ज्ञानेन सर्वोऽर्थः प्रत्यक्षः, सर्वस्य प्रमातुः सर्वत्रार्थे परिच्छित्तेरसंभवात् इति तदपि स्वगृहमान्यं
1. 'प्रज्ञानेन' मु । 2. 'ज्ञानान्तरेण वेद्यत्वे' मु । 3. 'व्यवस्थानविरो मु । 4. 'वाधित' मु । 5. 'प्रसंगात् ' अ ब स । 6. 'अर्थज्ञानेन' मु । 7. 'स्वार्थ व्यवसाय - ' मु । 8. 'बुद्धिरिति सावरभाष्ये' मु । 9 सर्वार्थस्य' मु । 10, 'सर्वस्यार्थस्य प्रत्यक्ष' - मु । 11. ' अर्थप्रत्यक्ष : ' मु । 12. 'सोऽर्थः प्रतीयते' मु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org