________________
२० : प्रमाण-परीक्षायां
$ ४३ स्यान्मतम्-'अर्थज्ञानं ज्ञानान्तरवेद्यं प्रमेयत्वात्, घटादिवत्' इत्यनुमानं स्वार्थव्यवसायात्मकत्वप्रतीतेबर्बाधकमिति, तदपि फल्गुप्रायम्, महेश्वरार्थज्ञानेन हेतोर्व्यभिचारात्, तस्य ज्ञानान्तरावेद्यत्वेऽपि प्रमेयत्वात् । यदि पुनरीश्वरार्थज्ञानमपि ज्ञानान्तरप्रत्यक्षम्, अस्वसंवेद्यत्वात्। इति मतिः', तदा तदप्यर्थज्ञानमीश्वरस्य प्रत्यक्षमप्रत्यक्षं वा। यदि प्रत्यक्षम्, स्वतो ज्ञानान्तराद्वा। स्वतश्चेत्प्रथममप्यर्थज्ञानं स्वतः प्रत्यक्षमस्तु कि विज्ञानान्तरेण । यदि तु ज्ञानान्तरात्प्रत्यक्षं तदपीष्यते, तदा तदपि ज्ञानान्तरं किमीश्वरस्य प्रत्यक्षमप्रत्यक्षं वेति स एव पर्यनुयोगोऽनवस्थानं च दुःशक्यं परिहर्तम् । यदि पुनरप्रत्यक्षमेवेश्वरार्थज्ञानज्ञानं तदेश्वरस्य सर्वज्ञत्वविरोधः स्वज्ञानस्याप्रत्यक्षत्वात् । तदप्रत्यक्षत्वे च प्रथमार्थज्ञानमपि न तेन प्रत्यक्षं स्वयमप्रत्यक्षेण ज्ञानान्तरेण तस्यार्थज्ञानस्य साक्षात्करणविरोधात् । कथमन्यथात्मान्तरज्ञानेनापि कस्यचित्साक्षात्करणं न स्यात् । तथा चानीश्वरस्यापि सकलस्य प्राणिनः स्वयमप्रत्यक्षेणापीश्वरज्ञानेन4 सर्वविषयेण सर्वार्थसार्थसाक्षात्करणं संगच्छेत, ततः सर्वस्य सर्वार्थवेदित्वसिद्धेः ईश्वरानीश्वरविभागाभावो बोभूयेत'। यदा चार्थज्ञानमपि प्रथममीश्वरस्याप्रत्यक्षमेव कक्षीक्रियते तदा तेनापि स्वयमप्रत्यक्षेण महेश्वरस्य सकलोऽर्थः प्रत्यक्षं कथं समर्खेत, तेन सकलप्राणिगणस्य सर्वार्थसाक्षात्करणप्रसंगस्य तदवस्थत्वात् । तदनेन वादिना महेश्वरस्यापि किंचिज्ञत्वं सर्वस्य वा सर्वज्ञत्वमनुज्ञातव्यम्, न्यायबलायातत्वात् । तथा नाभ्यनुज्ञाने वा नैयायिकस्य नैयायिकत्वविरोधः केनास्य वार्येत । यदि पुनरीश्वरस्य ज्ञानं सकलार्थवदात्मानमपि साक्षात्कुरुते, नित्यैकरूपत्वात् । क्रमभाव्यनेकानित्यज्ञानोपगमे महेश्वरस्य सकृत्सर्वार्थसाक्षात्करणविरोधात्11 सर्वज्ञत्वाव्यवस्थितेरिति मतम्, तदा कथमनेनैवानैकान्तिको हेतुर्न स्यात् ।
$ ४४. स्यान्मतिरेषा युष्माकं-अस्मदादिज्ञानापेक्षयार्थज्ञानस्य ज्ञानान्तरवेद्यत्वं प्रमेयत्वेन हेतुना साध्यते, ततो नेश्वरज्ञानेन व्यभिचारः, तस्यास्मदादिज्ञानाद्विशिष्टत्वात् । न हि विशिष्टे दृष्टं धर्ममविशिष्टेऽपि
1. 'असंवेद्यत्वात्' मु। 2. 'मितिः' मु। 3. 'प्रत्यक्षं तदा' मु। 4. 'ईश्वरस्य ज्ञानेन' ब स । 5. 'सर्वार्थसाक्षात्-' मु। 6. 'सर्वार्थवेदित्वासिद्धेः' मु। 7. 'भूयते' मु । 8. 'तथाभ्यनुज्ञाने' मु । 9. 'बाध्येत' अ ब स । 10. 'सर्वार्थसार्थ' अ स । 11. 'विधानात्' मु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org